________________
Silvi Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्त्री
विवरणम् ॥
परिच्छेद प्रथमः॥
॥७२॥
एवाभ्यासप्रसङ्गः, सिद्धिप्रतिबन्धकसच्चादनन्तरं सर्वानुभूयमानानुमितेरुच्छेदप्रसङ्गश्च । न च द्वितीयानुव्यवसायादिना ज्ञानावच्छेदकतयोक्तप्रामाण्यग्रहेऽपि स्वातन्त्र्येण तदग्रहात् स्वातन्त्र्येण तद्ग्रहायानुमानाश्रयणमावश्यकमिति वाच्यम् , अनुव्यवसाये स्वातन्येण प्रामाण्याग्राहकतायाः स्वातन्त्र्येण प्रामाण्यग्रहेऽनुव्यवसायसामग्र्याः प्रतिबन्धकत्वकल्पनयवोपपत्तेः तदपेक्षयाऽभ्यस्तज्ञानप्रामाण्यग्रहे क्षयोपशमविशेषहेतुत्वे लाघवमित्यस्मन्मतमेव युक्तम् । किश्च तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वमात्रमपि न प्रामाण्यं, संशयव्यावृत्त्यर्थं तदभावाप्रकारकत्वस्याप्यधिकस्य देयत्वात् , अन्यथेदंतांशे प्रमाणत्वेन भ्रमस्याप्यव्यावर्तनीयत्वप्रसङ्गात् तद्घटितस्य च प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वपरतस्त्वयोरप्रामाण्यतुल्यकक्षत्वं युक्तिमत् , अपि च प्रामाण्यज्ञानं निश्चिताख्यो मतिज्ञानविशेषः, स च प्रामाण्यघटकयावत्पदार्थहोपयोगादभ्यासाख्यामास्कन्दति ज्ञाने स्वत एव, अन्यत्र तु परतोऽनुमानादिनेत्यदुष्टकारकसन्दोहोत्पाद्यत्वादेरपि प्रामाण्यस्य ज्ञप्तिस्तदीहाशालिनां नानुपपन्ना, अस्तु वा सर्वत्र सर्वदा बाधकाभावपर्यालोचनवतां प्रामाण्यांशे ऊहात्मकमेव ज्ञानम् , एकत्रापि ज्ञाने तत्तद्विषयत्वावच्छेदेन ज्ञानजन्यत्वज्ञानाजन्यत्वाभ्यां परोक्षत्वप्रत्यक्षत्वयोरविरोधात्, बाह्यविषयापेक्षयैव प्रमितिभेदस्य तत्र तत्रोपपादितत्वादीहादिज्ञानजन्येऽपाये च बाह्यविषये एकोपयोगत्वपर्याप्तिमद्भिन्नज्ञानाजन्यत्वेनैव प्रत्यक्षत्वव्यवस्थितेरित्यधिक मत्कृत-न्यायविन्द्वादेवसेयम् । कुतस्तच्योपप्लवसिद्धिरिति (४०-२-१०) एकत्र प्रमितस्यैवान्यत्रारोपसम्भवादिति भावः । पराभ्युपगममात्रादिति (४०-२-१०) परोपगतप्रमाणाजनितविकल्पादित्यर्थः, सर्वमवगतमिच्छतामिति (४१-१-५) बैनयिकानामित्यर्थः, सर्वमिच्छन्तीति सर्वेषस्तेपामिति व्युत्पत्तिस्वारस्यादेतदर्थलाभः, नैकप्रमाणवादिन इत्यादि (४१-१-१०)
॥७२॥
For Private And Personal Use Only