________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥ ॥ ६९ ॥
www.kobatirth.org
संशयाद्विचारोत्तरं साधकाप्रामाण्यसम्भावनया तत्त्वोपप्लवोऽपि शक्यसाधन इत्याशयवांस्तत्त्वोपप्लववादी स्वमतं समाधत्ते एवं तत्यादि ( ३७-१-१०) विचार्यत ( ३७-१-११ ) इति, तदधीनप्रमेयतत्त्वखण्डनाय विचारासहत्वेनोनीयत इत्यर्थः । नयनकुशलादेरिति, ( ३७-१-१३) इन्द्रियावरणक्षयोपशमादेरित्यर्थः । तदविनाभाविलिङ्गाभावात्, (३७-१-१४) उक्तादुष्टत्वाविनाभाविलिङ्गाभावात्, तत्कार्यं (३७-१-१४) नयनकुशलादिकार्यम्, लिङ्गमित्यत्रादुष्टताया इत्यनुषञ्जनीयम् उपधायकतासम्बन्धी व्याप्यतावच्छेदको विशेषणताविशेषश्च व्यापकतावच्छेदक इति बोध्यम् । तदव्यभिचारित्वाभावादिति ( ३७-२- १ ) ज्ञानमात्रस्योपधायकतासम्बन्धेन दुष्टकारणचक्रेऽपि सच्चाद् व्यभिचारादित्यर्थः, प्रमात्वावच्छेदेनादुष्टकारणारब्धत्वव्याप्तिस्वीकारे गुणवत्कारणारब्धत्वव्याप्तिरपि स्यात्, तथा च वेदे गुणवत्पुरुषप्रणीतत्वस्य बलादापत्तेः, तत्रापौरुषेयत्वमनोरथोऽपि तव न पूर्येतेति मीमांसकं प्रत्याह तत्त्वोपप्लववादी किञ्चेत्यादिना (३७-२-३ ) नापि बाधानुत्पत्त्येति ( ३७-२-११ ) प्रामाण्यं गृह्यत इत्यनेन योगः, नापि प्रवृत्तिसामर्थ्येनेति (३८-२ - ३) अत्रापि प्रामाण्यं गृह्यत इति योजनीयम् । फलेन जलप्रात्यादिलक्षणेन, अभिसम्बन्ध उपधेयोपधायकभावः, तस्याः संविदः, तस्मिंश्च संविदः प्रमाणत्वनिश्चये च सति, तदवगमात् फलाभिसम्बन्धावगमात् पुनरावर्त्तत इति चक्रकमिति ( ३८-२ - ९ ) अन्यतः प्रमाणात् फलाभिसम्बन्धावगमे तत्प्रामाण्यस्य पूर्वज्ञानेन सिद्धावन्योन्याश्रयः फलाभिसम्बन्धान्तरोपजीविप्रमाणान्तराश्रयणे च पुनः पुनर्दोषावृत्तिरित्येवात्र चक्रकं बोध्यम्, नतु तृतीयापेक्षामात्रम्, यद्वा प्रवर्त्तकज्ञानप्रामाण्यनिश्चयात् प्रवृत्तिः प्रवृत्तेरर्थक्रियानिश्चयस्ततश्च प्रवर्त्तकज्ञानप्रामाण्यनिश्चय इत्येवं चक्रकं योजनीयम् । पुनरावृत्त्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ६९ ॥