SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्राहकत्वे सतीत्यर्थः, स्वेष्टतत्त्वविषयं भवेदिति (३६-२-११) अन्याभिमततचाभावे स्वप्रत्यक्षानुमानयोरिख प्रवृत्तेरित्यर्थः, माध्यमिक एव शङ्कते ननु चेत्यादि (३७-१-२) ज्ञानप्रामाण्यस्य दुर्ग्रहत्वादगृहीतप्रामाण्यकं ज्ञानं नानुपप्लुततत्त्वं साधयेदिति प्रघट्टकार्थः, स्वतः प्रमाणस्येति (३७-१-५) स्वप्रकाशमहिम्ना स्वेन स्वात्मेव प्रामाण्यमपि गृह्यत इति गुरुमतमाश्रित्यायं पूर्वपक्षः। सर्वप्रवादिनामिति (३७-१-५) स्वस्त्रज्ञानस्य स्वतः प्रामाण्यग्रहे सर्वे प्रवादाः सत्याः स्युरिति भावः । अपि च ज्ञानेन स्वतः स्वप्रामाण्यग्रहे ज्ञानप्रामाण्यसंशय एवोच्छियेत, ज्ञानग्रहे प्रामाण्यनिश्चयानिश्चिते च संशयायोगात्तदग्रहे धर्मिज्ञानाभावात् , समानधर्मवत्तया धर्मिज्ञानस्य चान्वयव्यतिरेकाभ्यां संशयहेतुत्वावधारणादित्यपि द्रष्टव्यम् । ननु प्रवृत्तिमात्रे न ज्ञानप्रामाण्यनिश्चयो हेतुः, अनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिदर्शनात् , प्रामाण्यज्ञानत्वेनैव प्रवृत्तिहेतुत्वात् , प्रवर्तकज्ञानेऽगृहीताप्रामाण्यकत्वनिवेशध्रौव्ये तदहेतुत्वाद्वा, प्रामाण्यनिश्चयस्याभ्यासहेतुसंशयापगमार्थमेवोपयोगात् । न च संशयात् प्रवृत्तौ प्रेक्षावचहानिः, इष्टत्वात् , प्रेक्षावरणक्षयोपशमस्य सर्वदा सर्वेषामभावेन विना सर्वज्ञ क्वचित्कदाचित्कस्यचिदेव प्रेक्षावत्त्वव्यवहारात् । तदुक्तं-"प्रेक्षावत्ता पुनर्जेया, कदाचित् कस्यचित् क्वचित् । अप्रेक्षाकारिताऽप्येवमन्यत्राशेपवेदिनः॥१॥” इति, यत्तु सकम्पत्वनिष्कम्पत्वे प्रवृत्तिगतजाती प्रामाण्यसंशयनिश्चयजन्यतावच्छेदिके इति, तत् न, अंशे प्रामाण्यसंशयनिश्चयात्मकज्ञानजन्यप्रवृत्ती तयोरांशिकत्वेन जातित्वासिद्धेः, अव्यवहितोत्तरत्वसम्बन्धेन संशयनिश्चयविशिष्टत्वयोरेव सकम्पनिष्कम्पपदार्थत्वात् , तदिह प्रामाण्यसंशयादेव विचारे प्रवृत्तिर्भवतु तदुत्तरं परीक्षया प्रामाण्यनिश्चयादनुपप्लुतत्वसिद्धिः स्यादित्याशयवान् शङ्कते स्यान्मतं विचारोत्तरकालमित्यादि (३७-१-८) एवं 40-4ACAKACOCOCALE For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy