________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
SAMACHAR
चाख्यातार्थसंख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति फलितं, नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमार्थ एवान्वयादाख्यातार्थसंख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेहेतुहेतुमद्भावो वाच्यः, सोऽपि चन्द्र इव मुखं दृश्यते देवदत्तो भुक्त्वा व्रजतीत्यादौ चन्द्रेवार्थयोराख्यातार्थानन्वयादितरविशेषणत्वतात्पर्याविषयत्वघटितो वाच्य इत्यतिगौरवमिति मन्तव्यम् । कालस्तु व्यापारे विशेषणं, न तु संख्यावत् कर्तृकर्मणोस्तदन्वयः शक्यः, अतीतभावनाके कर्तरि पचतीत्यापत्तेः अपाक्षीदित्यनापत्तेश्च, नापि फले तदन्वयः, फलानुत्पाददशायां व्यापारसच्चे पचतीत्यनापत्तेः पक्ष्यतीत्यापत्तेश्च, न चामवातजडीकृतकलेवरस्योत्थानानुकूलयत्नसत्वादुत्तिष्ठतीति प्रयोगापत्तिः, एरयत्नस्याज्ञानादप्रयोगात् , किञ्चिच्चेष्टादिनाऽवगतौ चायमुत्तिष्ठत्ति नतु शक्नोत्युत्थातुभिति लोकप्रतीतेरिष्टत्वात् , इत्थं च तिङथों विशेषणमेव प्रधानं तु भावनैवेति स्थितम् । यदि चाख्यातार्थप्राधान्यं स्यात् तदा देवदत्तादिभिः सममभेदान्वयात् प्रथमान्तार्थस्य प्राधान्यापत्तिस्तथा च पश्य मृगो धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् , प्रथमान्तार्थमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः, न चैवमप्रथमासामानाधिकरण्याच्छतृप्रसङ्गः, तथापि द्वितीयाया दुर्वारत्वेनोक्तवाक्यस्यैवासम्भवापत्तेः, न च पश्येत्यत्र तमिति कर्माध्याहार्यम् , वाक्यभेदप्रसङ्गात् । एवं च भावनाप्रका रकबोधे प्रथमान्तपदजन्यपदार्थोपस्थितिः कारणमिति नैयायिकोक्तमयुक्तम् । किं त्वाख्यार्थकदृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया हेतुः, भावनाप्रकारकबोधं प्रति तु धात्वर्थभावनोपस्थितिरेव हेतुः, पश्य मृगो धावति पचति भवतीत्याद्यनुरोधादिति कल्पनीयम् । इत्थं च पचतीत्यत्रैकायिका पाकानुकूला भावना, पच्यत इत्यत्रैकाश्रयिका या
AACHAAKADC-
AA%
+
For Private And Personal Use Only