________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
समस्तनम् ॥१॥ तथा यस्य च भावेन, षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य, क्रिययैवावधार्यताम् ।।२।।" इति, एतत्कारिकाद्वयार्थों यथा सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात् , “ समानवाक्ये निघातयुष्मदस्मदादेशा" इत्यनेन समानवाक्य एव तनियमात् , पचति भवतीत्यादौ सूत्रभाष्यादिरीत्यैकवाक्यतासवादेव निघातस्वीकारात् ॥ १॥ कृत्वोऽर्थः, क्रियाभ्यावृत्तिगणने कृत्वसुजितिविहितः, क्रियायामन्वेति, क्रियाया अभ्यावृत्तिः पुनःपुनर्जन्म तस्मिन् द्योत्य इति तदर्थात् क्रियायोगे तत्साधुतोक्तेः ॥ २॥ तथा कारकं करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः कारकशब्दस्य क्रियापरत्वात् , ॥३॥ प्रथमो वतिः तेन तुल्यं क्रिया चेद्वतिरिति विहितः, तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् ।। ४ ।। धातुसम्बन्धाधिकारनिष्पन्न " धातुसम्बन्धे प्रत्यया" इत्यधिकृत्य तेषां विधानात् ॥५॥ असमस्तः समासायोग्यो नञ् प्रसज्यप्रतिषेधीय इत्यर्थः । न च तस्य क्रियान्वये मानाभावः न त्वं पचसि न युवां पचथ इत्यादौ क्रियाया एव निषेधप्रतीतेः, घटो नास्तीत्यत्राप्यस्तित्वाभावस्यैव चोधात् , भूतले न घट इत्यत्राप्यस्तीत्यध्याहारेणैव तथा बोधकल्पनात् , प्रकारतासम्बन्धेन नअर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुताया एव युक्तत्वात् , ॥६॥ 'यस्य च भावेन भावलक्षणं' 'षष्ठी चानादर' इति सूत्रद्वयेन विहितमपि क्रियायामेवान्वेति, पूर्वत्र भावशब्देन तद्योगे साधुत्वाख्यानादुत्तरत्र च यद्भावेनेत्यस्यार्थतो लाभादिति ॥ ७-८ ॥ स च भावनाख्यो व्यापारः पचतीत्यादौ फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः, ततस्तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् , न च नानार्थतापत्तिः, तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानुगमकस्य सत्चात् , आख्याते क्रियैकत्वस्यापि तेनैव व्यवस्थितेः, यद्वाक्य
For Private And Personal Use Only