SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥६१॥ धानात् , अपि च फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रतीत्यापत्तिः संयोगाश्रयत्वात् , फलानुत्पाददशायां व्यापार सच्चे पाको भवतीत्यनापत्तिापारविगमे पाको विद्यत इत्यापत्तिश्च, न च भावप्रत्ययस्य घआदेरनुकूलव्यापारवाचकत्वान्नानुपपत्तिः कर्तरि कृदित्यत एव तल्लामे विशेषानुशासनवैयापत्तेः। अथ कथं फलव्यापारयोर्द्वयोरपि धातुतो लाभ इति चेत् , फले व्यापारे च खण्डशः शक्तिद्वयकल्पनात् , पचतीत्यादौ फलं विक्लित्यादि, व्यापारो भावनाभिधासाध्यत्वेनाभिधीयमाना क्रिया, यदाक्यपदीयं “यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते" ॥१॥ इति । न च साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ क्रियान्तराकाहानाकासयोर्दशनस्यैव मानत्वात् । क्रियान्तराकासानुत्थापकतावच्छेदकरूपस्य साध्यत्वस्यासत्त्वाख्यस्य धातुप्रतिपाद्यत्वकल्पनात् , तदिदमभिप्रेत्योक्तं वाक्यपदीये" असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते" इति, न चैवं घअन्तेऽपि धातुना तद्भानापत्तिः, इष्टत्वात् , तत्र प्रकृतिप्रत्ययभागाभ्यां पश्य मृगोधावतीत्यादौ तिङन्ताभ्यामिव साध्यसाधनावस्थयोरभिधानात् , तत्र साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्वं, साधनत्वं च कारकत्वेनान्वयित्वमिति, न च घान्ते धातुना साध्यत्वेनाभिधाने मानाभावः। ओदनस्य पाक इति कर्मषष्ठ्या मानत्वात् । न च भवतीत्यध्याहृतक्रियान्वयात् षष्ठी, कर्तृकर्मणोः कृतीति कृदन्तेन योग एव तद्विधानात् , नलोकाव्ययेत्यादिना लादेशयोगे निषेधाच्च । अथ कारकाणां भावनायामेवान्वय इति नियमे ओदनस्य पाक इत्यत्र कर्मषष्ठी भावनायाधातुवाच्यत्वं साधयेत् तत्रैव तु किमानमिति चेत् , विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभाव एवेत्यवेहि, तदुक्तं “सम्बोधनान्तं कृत्वोर्थः, कारकं प्रथमो वतिः । धातुसम्बन्धाधिकार-निष्पन्नम ॥६१॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy