________________
Siri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥
परिच्छेदः | प्रथमः॥
%
॥३९॥
4
%
4
-364-%A
कोयमभ्यासो नाम ? भूयः संवेदने संवादानुभवनमिति चेत् तज्जातीयेऽतज्जातीये वा ? तत्रातज्जातीये न तावदेकत्र संवेदने भूयः संवादानुभवनं संभवति क्षणिकवादिनः। संतानापेक्षया संभवतीति चेत्, न, संतानस्यावस्तुत्वादपेक्षानुपपत्तेः । वस्तुत्वे वा तस्यापि क्षणिकत्वसिद्धेः कुतस्तदपेक्षया सोभ्यासः? सन्तानस्याक्षणिकत्वे वा यत्सत्तत्सर्व क्षणिकमिति न सिद्ध्येत् । तजातीये भूयः संवादानुभवनमिति चेत्, न, जातिनिराकरणवादिनः कचित्तजातीयत्वानुपपत्तेः । अन्यापोहलक्षणया जात्या कचित्तजातीयत्वमुपपन्नमेवेति चेत्, न, अन्यापोहस्यावस्तुरूपत्वात् , तस्य वस्तुरूपत्वे वा जातित्वविरोधात् स्वलक्षणस्यासाधारणस्य वस्तुत्वोपगमात् । तदेवं सामान्यतः प्रमाणलक्षणानुपपत्तौ विशेषेणापि प्रत्यक्षादिप्रमाणानुपपरोर्न प्रमाणत्वं विचार्यमाणं व्यवतिष्ठते । तदव्यवस्थिती कुतः प्रमेयतत्त्वव्यवस्थेति विचारातत्त्वोपप्लवव्यवस्थितिः । इत्येतदपि सर्वमसारं, तत्त्वोपप्लवस्यापि विचार्यमाणस्यैवमव्यवस्थितेरनुपप्लुतत्त्वसिद्धिनिराकरणायोगात्। अथ " तत्त्वोपप्लवः सर्वथा न विचार्यः, तस्योपप्लुतत्वादेव विचारासहत्वादन्यथानुपप्लुततत्त्वसिद्धिप्रसङ्गात् । केवलं तत्त्ववादिभिरभ्युपगतस्य प्रमाणप्रमेयतत्त्वस्य विचाराक्षमत्त्वात्तत्त्वोपप्लवसिद्धिः” इति मतं, तदपि फल्गुमायं, यथातत्त्वमविचारितत्वात् । न यदुष्टकारकसन्दोहोत्पाद्यत्वेन संवेदनस्य प्रमाणत्वं स्यावादिभिर्व्यवस्थाप्यते, थाधारहितत्वमात्रेण वा । नापि प्रवृत्तिसामर्थेनान्यथा वा, प्रतिपादितदोषोपनिपातात् । किं तर्हि ? सुनिश्चितासम्भवडाधकत्वेन ।।
॥३९॥
4
For Private And Personal Use Only