________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
प्रथमसंवेदनस्य वैयर्थ्य, स एव च पर्यनुयोगोनवस्थापत्तिकरः। द्वितीयपक्षे तु प्रामाण्यनिश्चयानर्थक्यं, स्वयमनिश्चितप्रामाण्यादेव संवेदनात्प्रमेयप्रतिपत्तिप्रवृत्तिसिद्धेः । संशयात्प्रवृत्तिदर्शनाददोष इति चेत् किमर्थमिदानी प्रमाणपरीक्षणम् ? लोकवृत्तानुवादार्थमिति चेत्, तत्तर्हि लोकवृत्तं कुतो निर्विवादं प्रसिद्धं यस्यानुवादार्थ प्रमाणशास्त्रप्रणयनम् ? न तावत्खत एव, प्रमाणतोर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमिति परतः प्रामाण्यानुवादविरोधात् । स्वतः प्रसिद्धं हि प्रमाणप्रमेयरूपं लोकवृत्तं तथैवानुवदितुं युक्तं नान्यथा, अतिप्रसङ्गात् । यथानूद्यतेस्माभिस्तथैव लोकवृत्तं प्रसिद्धं स्वत इति चेत्, न, स्वतः सर्वप्रमाणानां प्रामाण्यमित्यन्यैर्लोकवृत्तस्यानुवादात् तथैव प्रसिद्धिप्रसङ्गात् । स मिथ्यानुवाद इति चेत्, तवापि मिथ्यानुवादः कुतो न भवेत् ? तथा लोकवृत्तस्य प्रसिद्धत्वादिति चेत्, परोप्येवं ब्रूयात् । तथैव लोकवृत्तस्य प्रसिद्धत्वे तथानुवादस्य सत्यत्वं तत्सत्यत्वाच्च तथैव लोकवृत्तस्य प्रसिद्धत्वमितीतरेतराश्रयत्वमप्युभयोः समानम् । तथा लोकवृत्तान्तरात्तस्य प्रसिद्धौ पुनरनवस्था दुर्निवारैव । इति न प्रवृत्तिसामर्थ्यात्संविदः प्रामाण्यनिश्चयानुवादो युक्तः। ततो न प्रवृत्तिसामर्थ्येन प्रामाण्यं व्यवतिष्ठते । नाप्यविसंवादित्वेन, तदविसंवादस्यार्थक्रियास्थितिलक्षणस्यानवगतस्य प्रामाण्यव्यवस्थाहेतुत्वायोगात् । तस्यावगतस्य तद्धेतुत्वे कुतस्तदवगमस्य प्रामाण्यम् ? संवादान्तरादिति चेत्, न, तदवगमस्यापि संवादान्तरात्प्रामाण्यनिर्णयेनवस्थाप्रसङ्गात् । अथार्थक्रियास्थितिलक्षणाऽविसंवादज्ञानस्याभ्यासदशायां स्वतः प्रामाण्यसिद्धेरदोषः ।
For Private And Personal Use Only