SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥३२॥ परिच्छेदः प्रथमः॥ +5%%%2554545390 प्रतिपाद्यप्रतिपादकभाववत् । द्वितीयपक्षेपि न तयोस्तद्भावः अनवस्थानुषङ्गात्तद्वत् । तृतीयपक्षे तु तदुभयदोषप्रसक्तस्तद्देव कुतः संवेद्यसंवेदकभावः सिध्येत् अथ स्वार्थसंवेदनव्यापारविशिष्टं संवेदनमवाधमनुभूयमानं विकल्पशतेनाप्यशक्यनिराकरणं संवेद्यसंवेदकभावं साधयतीत्यभिधाने परस्यापि शब्दः स्वव्यापारबिशिष्टः पुरुषव्यापारं भावयतीत्यवाधप्रतीतिसद्भावाद्वाक्यव्यापारो भावना वाक्यस्य विषयो व्यवतिष्ठते एवेति। तदनुपपन्नम् , वैषम्यात् । संवेदनेन हि संवेद्यमानः स्वात्माऽर्थो वा तस्य विषयो न पुनः संवेदकः स्वात्मा तत्संवेद्यत्वेऽन्यस्य संवेदनस्यात्मनःसंवेदकत्वोपपत्तेराकाङ्खापरिक्षयादनवस्थानवतारात् । वाक्येन तु भाव्यमानः पुरुषव्यापारो न तस्य विषयः । स्वव्यापारस्तु भावकत्वलक्षणो भावनाख्यो विषयोभ्युपगम्यते इति मनागपि न साम्यम् , तथाप्रतीत्यभावाच । न हि कश्चिद्वाक्यश्रवणादेवं प्रत्येति स्वव्यापारोनेन वाक्येन मम प्रतिपादित इति । किं तर्हि ? जात्यादिविशिष्टोर्थः क्रियाख्योनेन प्रकाशित इति प्रतीतिः, सर्वेण वाक्येन क्रियाया एव कर्मादिविशेषणविशिष्टायाः प्रकाशनात् । देवदत्त गामभ्याज शुक्लां दण्डेनेत्यादिवत् । सैवाभ्याजनादिव्यवच्छिन्ना क्रिया भावना, अभ्याज अभ्याजनं कुर्विति प्रतीतिरिति चेन्न, तस्याः पुरुषस्थत्वेन सम्प्रत्ययाच्छब्दात्मभावनारूपत्वायोगात् । तथा च कथमिदमवतिष्ठते, “शब्दात्मभावनामाहु-रन्यामेव लिङादय” इति। यदप्युक्तम्, अर्थभावना पुरुषव्यापारलक्षणा वाक्यार्थ इति तदप्ययुक्तम्, नियोगस्य वाक्यार्थत्वप्रसङ्गात् । नियुक्तोऽहमनेन वाक्येन यागादाविति W ॥३२॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy