________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
च रूपादीनां निमित्तभावेन प्रयोजकत्वात् स्वयमधीयानानां कारीषाग्न्यादिवत् । अथ रूपादयः प्रकाश्या एव ततोर्थान्तरभूतानां चक्षुरादीनां प्रकाशकादीनां सद्भावादिति मतम् । तथैव शब्दस्वरूपं प्रकाश्यमस्तु ततोन्यस्य श्रोत्रस्य प्रकाशकस्य भावात् । सत्यमेतत्, इन्द्रियवुद्धेर्विषय भावमनुभवन् प्रकाश्य एव शब्दो रूपादिवत् । प्रतिपादकस्तु स्वरूपे शाब्दीं बुद्धिमुपजनयन्नभिधीयते इति चेत्, न, तत्र वाच्यवाचकभावसम्बन्धाभावात् । तस्य द्विष्ठत्वेनैकत्रानवस्थितेः । यदि पुनरर्थान्तरभूत एव शब्दात्तद्व्यापार इति मतं तदा स शब्देन प्रतिपाद्यमानो व्यापारान्तरेण प्रतिपाद्यते चेत्तर्हि तद्भाव्यः स्यात् । तद्व्यापारान्तरं तु भावनानुषज्यते । तदपि यदि शब्दादर्थान्तरं तदा तद्भाव्यं व्यापारान्तरेण स्यात् । तत्तु भावनेत्यपरापरभाव्य भावनापरिकल्पनायामनवस्थाप्रसङ्गः । अथ वाक्यात्तद्व्यापारः कथञ्चिदनर्थान्तरम् विष्वग्भावे - नानुपलभ्यमानत्वात् कुण्डादेर्बदरादिवत् । कथञ्चिदर्थान्तरं च विरुद्धधर्माध्यासात्, तदनुत्पादेऽप्युत्पादात्तदविनाशेऽपि च विनाशादाकाशादन्धकारवदिति मतम्। तदाप्युभयदोषानुषङ्गः । स्यान्मतम्, अग्निष्टोमादिवाक्यमुपलभ्यमानं पुरुषव्यापारस्य साधकमिदमित्यनुभवाद्वाक्यस्थ एव तद्व्यापारो भावना वाक्यस्य विषयतां समञ्चति, तथा प्रतीतेः । अन्यथा सर्वत्र विषयविषयिभावसंभावनाविरोधात् । संवेदनमपि हि भवतां स्वव्यापारं विषयीकुर्वन् तदनर्थान्तर भूतमर्थान्तरभूतं कथञ्चिदुभयस्वभावं वा संवेदयेत्, गत्यन्तराभावात् । प्रथमपक्षे न संवेद्यसंवेदकभावः, संवेदनतद्व्यापारयोः सर्वथानर्थान्तरत्वाद्वाक्यतद्व्यापारयोः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir