SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यदुक्तं धर्मकीर्तिना, “ अतद्रूपपरावृत्तवस्तुमात्रप्रवेदनात् । सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्टिते-" रिति । तद्पानुवृत्तस्य वस्तुमात्रस्य निर्वाधबोधाधिरूढस्य सिद्धर्भेदमात्रस्याप्रतिष्ठितत्वात्, सर्वदा बहिरन्तश्च भेदाभेदात्मनो वस्तुनः प्रतिभासनात् । न चैती भेदाभेदी विवक्षामात्रवशवतिनौ सर्वत्र तत्सङ्करप्रसङ्गात् , येनात्मना भेदव्यवस्था तेनैवाभेदव्यवस्थितिः स्यात्, तद्विवक्षाया निरङ्कशत्वात् । पूर्ववासनाप्रतिनियमाद्विवक्षायाः प्रतिनियमसिद्धेन तद्वशानेदाभेदव्यवस्थितौ सङ्करप्रसङ्ग इति चेत्, कुतस्तद्वासनाप्रतिनियमः ? प्रबोधकप्रत्ययप्रतिनियमादिति चेन्न-तदनियमे तदनियमप्रसङ्गात् । पूर्वस्ववासनाप्रतिनियमात्प्रकृतवासनाप्रतिनियम इति चेन्न, तस्याः संविदव्यभिचारे वस्तुस्वभावतापत्तेः। कदाचित्तह्यभिचारे भेदाभेदव्यवस्थितेरपि व्यभिचारप्रसक्तः कुतो न तत्सङ्करप्रसक्तिः ? सुदूरमपि गत्त्वा वस्तुस्वभावावलम्बनादेव तत्परिहारमिच्छता वस्तुस्वभावावेव भेदाभेदौ परेणाभ्युपगन्तव्यो। ततो यदभिन्न साधारणं वस्तुस्वरूपं तदेव सामान्यं सिद्धम् । न पुनरन्यापोहमानं विकल्पबुद्धिपरिनिष्ठितम् , यतः करोति, सामान्यं यज्यादिविशेषव्यापि वास्तवं न भवेत् । तदुपलम्भेपि च विशेवे सन्देहोनुपलभ्यमानेपि स्मृतिविषये न स्यात् । ननु च स्थाणुपुरुषविविक्तमपरमूतासामान्यं यज्यादिविशेषव्यतिरिक्तं च करोतिसामान्यं न वास्तवमस्ति, बुध्द्यऽभेदात् । न हि बुद्धिभेदमन्तरेण पदार्थभेदव्यवस्थितिः, अतिप्रसङ्गात् । तदुक्तम्, “न भेदागिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः । वुध्द्याकारस्य भेदेन पदार्थस्य For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy