SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ २९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ज्ञानविशेषाः परमार्थतः सन्तः सिद्धाः ? बहिरर्थविशेषास्तु न वास्तवा इति विज्ञानवादिमतमायातं तर्हि, विज्ञानसामान्यं वस्तुभूतं म बहिरर्धसामान्यमिति सामान्यविशेषात्मकं विज्ञानं परमार्थसदायातं न क्षणिकविज्ञानखलक्षणवादिमतम् । विकल्पविज्ञानेपि न वास्तवः सामान्याकारः, तस्याऽनाद्यविद्योपपादितत्वात् । संवेदनस्वरूपस्यैवासाधारणस्य परमार्थसत्त्वादिति चेन्न, विपर्ययस्यापि कल्पयितुं शक्यत्वात् । संवेदनेपि नासाधारणाकारः पारमार्थिकः, तस्यानाद्यविद्योदयनिबन्धनत्वात् संवेदनसामान्यस्यैव वास्तवत्वादिति वदतोऽन्यस्यापि निवारयितुमशक्यत्वात् । न वस्तुभूतं संवित्सामान्यम्, वृत्तिविकल्पानवस्थादिदोषानुषङ्गात् । बहिरर्थसामान्यवत् । इति चेत्तर्हि न संविद्विशेषः परमार्थः सन्, विचार्यमाणायोगाद्वहिरर्थविशेषवदित्यप्यन्यो ब्रूयात् । तथा च सत्याऽऽश्रयासिद्धो हेतुरित्युभयत्र समानं दूषणम् । साधनविकलं निदर्शनमित्यपि न चोद्यम्, समानत्वात् । संवित्स्वलक्षणाद्वैतोपगमात् सिद्धसाधनमिति चेत्, संवित्सामान्याद्वैतोपगमात्परस्यापि सिद्धसाधनं कुतो न भवेत् ? संवित्सामान्याद्वैतं प्रतीतिविरुद्धम्, विशेषसंविदभावे जातुचिदसंवेदनादिति चेत् संवित्स्वलक्षणाद्वैतमपि तर्हि प्रतीतिविरुद्धमेव, संवित्सामान्यसंवेदनाभावे तद्विशेषसंवेदनस्य सकृदप्यभावात् । सर्वाक्षेपसमाधीनां समानत्वात् । ततो निर्बाधप्रतीतिबलाद्भेदव्यवस्थायां सामान्यव्यवस्थाsस्तु सुघटे व । अन्तः संवेदनेषु तद्वद्बहिरर्थेषु च सामान्यविशेषव्यवस्थोररीकर्तुं युक्ता, निर्वाधप्रतीतिसिद्धत्वाविशेषात् । एतेनैतदपि प्रत्याख्यातं ॥ २९ ॥ परिच्छेदः प्रथमः ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy