________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
तत्रैवप्रश्नोत्तरदर्शनादिति । तदेतदनुपपन्नम् , करोत्यर्थस्य सामान्यरूपत्वात् , तद्विशेषरूपत्वाच्च यज्यादेः । सामान्यविशेषयोश्च कश्चिदभेदोपगमात् । सन्दिग्धस्यैव कथनात् । प्रश्नोत्तरक्रमस्य दुर्घटत्वाघटनात् । तदभेदैकान्ते एव तस्य दुर्घटत्वात् । स्यादाकूतं ते, । “न सामान्य विशेषेण विना किञ्चित्प्रतीयते । सामान्याक्षिप्यमाणस्य न हि नामाप्रतीतता" ॥ केवलसामान्यप्रतीतौ हि विशेषांशे सन्देह इत्ययुक्तम् , तस्याप्रतीतत्वात् । घटप्रतीतौ हिमवदादिवत् । अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एवेति कथं संशयः ? न हि प्रतीतत्वादपर आक्षेपः । अथ प्रतीत एवासौ सामान्येन न तु विशेषेण, तस्य सामान्यरूपेणाक्षेपात् । ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् ? न च सामान्यादपरं सामान्यमाक्षेप्यम् । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था । ननु सामान्यप्रत्यक्षाद्विशेषाऽप्रत्यक्षाद्विशेषस्मृतेश्च संशयो युक्त एव, न त्वनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अथोपलब्धिलक्षणप्राप्तानुपलम्भादभावे नानुपलब्धिमात्रात् तथानुपलब्धेरेव संशयः व्यर्थमेतत्सामान्यप्रत्यक्षादिति । यदि सामान्यप्रत्यक्षतायामप्युपलब्धिलक्षणप्राप्तानुपलब्धिर्न स्यात् । स्यात्संशयः। अथोपलब्धिलक्षणप्राप्तानुपलब्धिरेव न सम्भवति सामान्यप्रत्यक्षतायाम् । एवं तर्हि सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्त; विशेषस्मृतेरिति च व्यर्थम् । न हि विशेषस्मृतिव्यतिरेकेणापरः संशयः, उभयांशावलम्बिस्मृतिरूपत्वात्संशयस्य । दृश्यते च कन्याकुब्जादिषु सामान्यप्रत्यक्षतामन्त
5A5%25-
1550*
For Private And Personal Use Only