SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ २७ ॥ www.kobatirth.org अवस्थातुरसत्त्वे सांवृतत्वे वावस्थायाः सत्त्वाऽसांवृतत्वविरोधात् खपुष्पसौरभवत् कृत्रिमफणिस्फटादिवच्च । ततो वस्तुस्वभावाश्रय एव यागं करोतीति व्यपदेशः, सत्यप्रतीतिकत्वात् । संविदमनुभवतीत्यादि व्यपदेशवत् । " तथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा च निर्बाधा करोतीति क्रियेष्यते ॥ यदि क्रियापि भावस्याऽविशेषादपरैव हि । सामानाधिकरण्येन देवदत्ततया गतेः " ॥ द्विजो हि व्याटतेतरावस्थानुयायी स एवायमित्येकत्वप्रत्यवमर्षवशान्निश्चितात्मा परमार्थात्सन्नेकः । यागस्तु तद्व्यापारः प्रागऽभूत्त्वा भवन् पुनरपगच्छन्नऽनित्यतामात्मसात्कुर्वन् भेदप्रत्ययविषयस्ततोऽपर एव, कथञ्चिद्विरुद्धधर्माध्यासात् । तथा यागेतरव्यापारव्यापिनी करोतीति क्रियानुस्यूतप्रत्ययवेद्या तद्विपरीतात्मनो यागादर्थान्तरभूता सर्वधाप्यप्रतिक्षेपार्हानुभूयते, यजते यागं करोति देवदत्त इति समानाधिकरणतया देवदत्तेन सहावगतेः । सर्वथा तदैक्ये तद्विरोधात् पटतत्स्वात्मवत् । किं करोति देवदत्तः ? यजति पचतीति प्रश्नोत्तरदर्शनात करोतीति निश्चितेपि यज्यादिषु सन्देहाच्च । तथा हि यस्मिन्निश्चीयमानेपि यन्न निश्चीयते तत्ततः कथञ्चिदन्यत् । यथान्यदेहे निश्चीयमानेष्यनिश्चीयमाना बुद्धिः । करोतीति निश्चीयमाने प्यनिश्चीयमानश्च यज्यादिरिति । स्यान्मतम्, “ करोत्यर्थयज्याद्यथ विभिन्नौ यदि तत्त्वतः । अन्यत्सन्दिग्धमन्यस्य कथने दुर्घटः क्रमः " ॥ न हि करोतीति क्रियातो विभिन्नायां यज्यादिक्रियायां सन्देहे ततोन्यत्र करोत्यर्थे निश्चिते प्रश्नः श्रेयान्, अनिश्रिते एव प्रश्नस्य साधीयस्त्वात् । ततः करोत्यर्थयज्याद्यर्थ योस्तादात्म्यमेषितव्यम्, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ २७ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy