________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
नियोगः। ननु शब्दव्यापाररूपो नियोगः प्रतीयत एव, शब्दो हि स्वव्यापारस्य पुरुषव्यापारकरणलक्षणस्य प्रतिपादको, न पुनः कारकः, शब्दादुचरितान्नियुक्तोऽहमनेनेति प्रतिपत्तृणां प्रतिपत्तेरन्यथानुपपत्तेरिति चेत्, तर्हि भावनैव नियोग इति शब्दान्तरेणोक्ता स्यात् । तदुक्तम् , “शब्दादुच्चरितादात्मा नियुक्तो गम्यते नरैः। भावनातः परः को वा नियोगः परिकल्प्यताम् ॥१॥” इति । स्यान्मतम् । यदि शब्दव्यापारो भावना कथमगृहीतसङ्कतो नैव गच्छति नियुक्तोऽहमनेनेति, स्वभावतस्तस्य नियोजकत्वात् , सङ्केतग्रहणस्यानुपयोगित्वादिति, तदसमीचीनमेव, सङ्केतस्य तथाऽवगतौ सहकारित्वात् , सामग्री जनिका नैकं कारणमिति प्रसिद्धः । ननु च सङ्केतसामग्री न प्रेरणे भावनायां वा व्याप्रियते, अर्थवेदने तस्याः प्रवृत्तेः, अर्थप्रतीतो पुरुषस्य स्वयमेव तत्र तदर्थितया प्रवृत्तः, इदं कुर्विति प्रेषणाद्धेषणयोरेव हि प्रतीतिः, तदप्रतीतो नियुक्तत्वाप्रतिपत्तेः, नियुक्तत्वं च नाम कार्ये व्यापारितत्वम् , कार्ये व्याप्ततामवस्थां प्रतिपद्य नियोजको नियुङ्क्ते, सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या, स्वरूपसाक्षात्करणे हि सर्व तदैव सिद्धमिति न नियोगः स्यात्सफलः, ततः प्रयोजको बाध्यमानप्रतीतिक एव । तदुक्तम् , "यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः। प्रयोज्योऽपि तथैव स्याच्छन्दो बुद्ध्यार्थवाचकः ॥१॥" यथैव हि प्रयोजकस्य शब्दस्य प्रयोज्येन पुरुषेण स्वव्यापारशुन्यमात्मानं प्रतीयता प्रयोजकत्वप्रतीतिर्वा ध्यमाना निरालम्बना तथा प्रयोज्यत्वप्रतीतिरपि तेनैव स्वव्यापाराविष्टमात्मानमप्रतीयता बाध्यते ।
For Private And Personal Use Only