________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ।। ॥२३॥
KIROMCHAURASKAAGA5%
वना च-“शब्दात्मभावनामाहुरन्यामेव लिङादयः । इयं त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते॥१॥” इति परिच्छेदः वचनात् । तत्र शब्दभावना शब्दव्यापारः, शब्देन हि पुरुषव्यापारो भाव्यते, पुरुषव्यापारेण धात्वर्थो, प्रथमः॥ धात्वर्थेन फलमिति । न चैवं पुरुषव्यापारे शब्दव्यापारवद्धात्वर्थे च पुरुषव्यापारवत् फले धात्वों भावनाऽनुप्रसज्यते, तस्य शुद्धस्य सन्मात्ररूपतया विधिरूपत्वप्रसङ्गात् । तदुक्तम् ।-" सन्मानं भावलिङ्गं स्यादसंपृक्तं तु कारकैः । धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते ॥१॥ तां प्रातिपदिकार्थं च धात्वर्थ च प्रचक्षते। सा सत्ता सा महानात्मा यामाहुस्त्वतलादयः॥२॥” इति च, प्रतिक्षिप्तश्चैवंविधो विधिवादो नियोगवादिनैवेति नास्माकमत्रातितरामादरः। अथ ततोऽन्यो धात्वर्थः, सोऽपि न प्रत्ययार्थशून्यः कुतश्चिद्वाक्यात्प्रतीयते, तदुपाधेरेव तस्य ततः सम्प्रत्ययात् । प्रत्ययार्थस्तत्र प्रतिभासमानोऽपि न प्रधानं, कर्मादिवदन्यत्रापि भावादिति चेत्, तर्हि धात्वर्थो यजनादिः प्रधानं मा भूत् प्रत्ययान्तरेपि भावात् प्रकृतप्रत्ययापायेपीति समानं पश्यामः। यदि पुनः क्रिया सकलव्यापिनी धात्वर्थः सर्वधातुषु भावात् , तदा सैव भावना | किं नेष्यते, सर्वार्थेषु सद्भावात् । यथैव हि जुहुयाज्जुहोतु होतव्यमिति लिङादयः क्रियां हवनावच्छिन्नां | प्रतिपादयन्ति, तथा सर्वाख्यातप्रत्यया अपि, पचति पपाच पक्ष्यतीति पचनावच्छिन्नायाः क्रियाया एव प्रतिपत्तेः, पाकं करोति चकार करिष्यतीति, तथा च लिङादिप्रत्ययप्रत्याय्यः करोत्यर्थ एव वाक्यार्थ इत्यायातम्, सच भावनास्वभाव एवेति न धात्वर्थ एव वाक्यार्थतया प्रतीयते । नापि कार्यादिरूपो
IN॥२३॥
For Private And Personal Use Only