SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः. माध्यन्दिनसवनवनिनामैष्टिकानां पाशुकानां च आश्रुतादीनां मध्यमस्वरप्राप्त्यर्थ ॥ .. १५-१६, क-दर्शपूर्णमासयोस्विष्टकृत्प्रभृति शेषे तृतीयसवने च यदुन्चैः प्रयोक्तव्यं तत्क्रुष्टस्वरेण वाच्यं । प्रातस्सवने माध्यन्दिने तृतीयसवने च दर्शपूर्णमासविकाराणां प्रकृतिस्वरबाधेन प्रत्यक्षोपदेशात्सवनस्वरेण प्रयोगः कर्तव्यः ॥ १५. ह-क्रुष्टस्तार इत्यनर्थान्तरं । शिरसि तारइति तारलक्षणं । शेष स्विष्टकृतभूति ब्राह्मणतर्पणप्रैषान्तं ॥ १६. ह-आदित्यग्रहणप्रभृति निस्सर्पणान्तः सोमाभिषवसंबन्धः क्रियाकलापस्तृतीयसवनमित्युच्यते । एतानि क्रुष्टस्वरेण प्रयोक्तव्यानि । चशब्दः पूर्ववत् ऐष्टिकानां पाशुकानां च आश्रुतादीनां क्रुष्टस्वरप्राप्त्यर्थः । पत्नीसंयाजादीनां न सवनस्वरो भवति। पशुवत्पत्नीसंयाजा इति वचनात् ॥ १७. क-उच्यत इति वाक् शब्दो मन्त्रात्मकः । सन्द्रावोगतिः । वाक्सन्द्रावो वाचो निर्गमः । सा वागुच्चारणविलम्बे विलम्बिता दृश्यते । उच्चारणे मध्यमे मध्यमा । उच्चारणशैघचैटूता। प्रागाज्यभागाभ्यां प्रातस्सवने च यथाविलम्बिता आज्यभागात्प्राक स्विष्टकृतो माध्यन्दिने च यथामध्यमा स्विष्टकृत्प्रभृति शेषे तृतीयसवने च यथाशता तथा मन्त्राः प्रयोक्तव्याः । चशब्दो नियमार्थः । यत्र मन्द्रादिविधानं तत्रैव विलम्बितादिविधिः । नोपांशुत्वादौ सामिधेन्यनुवचनात् ॥ अङ्गभूतानां. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy