SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः. योरित उर्वमित्यग्रहणादन्वाधानप्रभृति प्रागाज्यभागाभ्यां ज्योतिष्टोमे प्रातस्सवने च यदुखैर्वक्तव्यं तन्मन्द्रस्वरेण वाच्यम् ॥ ११. ह-आश्रुतादीनामुच्चेस्त्वमुक्तं । तच उच्चस्त्वं त्रिविधं, मन्द्रो मध्यमःकृष्ट इति। तत्रातादीनामेवोच्चैस्स्वरविधानार्थ उपरितनसूत्राणामारम्भः । उरसि मन्द्रः शालागतो वा स मन्द्र इति मन्द्रलक्षणम् । आरम्भप्रभृति आज्यभागाभ्यां प्राग्यान्याश्रुतादीनि . तानि मन्द्रस्वरेण प्रयोक्तव्यानि सामिधेनीवर्जयित्वा ॥ १२. ह-महाराd बुद्धत्यारभ्य निस्सर्पणान्तः क्रियाकलापः सोमाभिषवसम्बन्धः प्रातस्सवनमित्युच्यते । तस्मिन् प्रातस्सवने यान्याश्रुतादीनि तानि मन्द्रस्वरेण प्रयोक्तव्यानीत्यर्थः । चशब्दः प्रातस्सवनमध्यवर्तिनामौष्टिकानां पाशुकानां च आश्रुतादीनां मन्द्रस्वरप्राप्त्यर्थः । आनुमानिकाचोदकात् प्रत्यक्षस्सामान्यविधिर्बलीयानिति ॥ १३-१४. क-स्विष्टकृत इति पंचमी । दर्शपूर्णमासयो राज्यभागप्रभृति प्राक्स्विष्टकृतः ज्योतिटोमे माध्यन्दिने सवने च यदुच्चैः प्रयोक्तव्यं तन्मध्यमेन स्वरेण प्रयोक्तव्यं । मध्यमः क्रुष्ठस्तावदुक्तस्वरूपः। १३. ह-कंठे मध्यममिति मध्यमस्वरलक्षणं । आज्यभागप्रभृति स्विष्टकृतः प्राग्यान्याश्रुतादीनि तानि मध्यमस्वरेण प्रयोक्तव्यानि ॥ १४. ह-सोमोपहरणादि निस्सर्पणान्तो माध्यन्दिनकाले अनुष्टयः क्रियाकलापो माध्यन्दिनसवनमित्युच्यते । चकारो उरसागतो. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy