SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] अनर्घराघवम् । त्रिलोकीनिर्माणस्थितिनिधनबन्धोर्मधुभिदो। भवान्पष्ठी मूर्तिभृगुकुलमधिष्ठाय रमते ।। ६३ ॥ जामदग्यः-वत्स रामभद्र । राम:-आज्ञापय । जामदग्न्यः-निवर्तस्व । नूनमिदानीं कृतकौतुकागारमङ्गलोपचारः श्वशुरकुललोकस्त्वां प्रतीक्षते (इति परिष्वज्य निष्क्रान्तः ।) राम:---(सोद्वेगम् ।) कथं गतो भगवान् । तदहमपि तातसमीपमेव गच्छामि । (इति परिक्रामन्पुरोऽवलोक्य ।) कथं तातश्च जनकश्चेत एवाभिवतेते । (इत्युपसर्पति ।) (ततः प्रविशतो जनकदशरथौ। राजानावन्योन्यं परिष्वज्य ।) जनक:सुचरितमिदमैतिहासिकानां हृदि न विरंस्यति यत्तवैष पुत्रः । भृगुसुतपरशूदराद्विराजां सहजविजित्वरमाचकर्ष तेजः ॥ ६४ ।। दशरथः—(पुरोऽवलोक्य सहर्षम् ।) कथमागत एव वत्सो रामभद्रः । जनकः-सखे महाराज दशरथ, पश्य पश्य । चिरात्मानं तेजस्त्रिजगदेवजैत्रं जनयिता विधाता सर्वेषामुपरि सवितारं कुलभृताम् । पालनम् । निधनं विनाशः । मधुभिदो विष्णोः षष्ठी मूर्तिः परशुरामस्वरूपा । तथा हि दशावतारे--'मत्स्यः कूर्मी वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥' अत्र रामः परशुरामः। रामो रामभद्रः । रामो बलभद्र इति । कौतुकं विवाहः, उत्सवः हर्षो वा । तदर्थमगारो गृहं तत्र मङ्गलस्य चित्रादेरुपचारः परिपाटी । 'कौतुकं तु विवाहे स्यादुत्सवे नमहर्षयोः' इति मेदिनीकरः । इतिहासः पुरावृत्तं तद्विदन्ति ऐतिहासिकाः । 'आख्यानाख्यविकेतिहासपुराणेभ्यष्ठरवक्तव्यः' । ऐतिहासिकानां हृदि इदं सुचरितं न विरंस्यति न लुप्तं भविष्यति । यत्तवैष पुत्रो भार्गवकुठारमध्याद्विराजां क्षत्रियाणां स्वभावजयशीलं तेजः कर्म आचकर्ष कृष्टवान् । विजित्वरमिति 'इण्नशजिसर्तिभ्यः करप्' । 'बाहुजः क्षत्रियो विराट्' इत्यमरः। चिरादिति । अयं रामोऽक्ष्णोरधिकरणयोरमृतं विकिरति विक्षिपति । अत्यन्तानन्ददानात् कीदृशः । १. 'मूर्तिः षष्टी'. २. 'कुल' इति पुस्तकान्तरे नास्ति. ३. 'पुरतोऽवलोक्य च'. ४. 'न हृदि'. ५. 'उपजीव्यम्'. ६. 'कुलकृताम्'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy