SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ काव्यमाला। विनेता वर्णानां भृगुपतिभुजादर्पनिकषो . महावीरः श्रीमानयममृतमक्ष्णोर्विकिरति ॥ ६५ ॥ दशरथ:---(निर्वर्ण्य । सस्नेहम् ।) सखे सीरध्वज, रघुराजधर्माधिकारसर्वधुरीणः शिशुरपि वत्सोऽयम् । तदस्मिञ्जरसा दुर्वहं वर्णाश्रमभारमारोप्य वयमपि कापि तपोवने दिलीपकुलोचितेन विधिना शेषमायुसैपबुभुक्षामहे । जनकः-सखे दशरथ, साधु ते हृदयमीदृशम् । क्रमादेतर्दैनुष्ठातव्यम् । रामः-(उपसृत्य ।) तातौ, अभिवादये । जनकः-एह्येहि वत्स रामभद्र । (इति सहर्षमालिङ्गति।) दशरथ:-(राममालिङ्गय ।) सखे जनक, रामभद्रमभिषेक्तुं जामदग्यविजयप्रीतिरेव श्रेयानवसरः । कालक्षेपे पुनः को हेतुः । (प्रविश्य ।) लक्ष्मणः-इयमार्यया मन्थरयोपनीता मध्यमाम्बायाः पत्री। (राजानौ सवितर्कमन्योन्यं पश्यतः ।) रामः-(सहपम् ।) वत्स लक्ष्मण, अपि सपरिवाराया कुशलमम्बायाः कथयत्यार्या मन्थरा । लक्ष्मणः-आर्य, अथ किम् । रामः-नूनमस्मत्प्रवासदौमनस्यमम्बां पीडयिप्यति । क्षात्रं तेजस्त्रिजगतामवत्रं जेतृ जनयिता उत्पादयिता । तृनि रूपम् । तेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति न पष्ठी । कुलभृतां कुलधारकाणां बीजिनां चन्द्रादीनां सर्वेषामुपरि सवितारं सूर्य विधाता कर्ता । रामेण सवितृकुलं सर्वकुलेभ्यः प्रशस्यमित्यर्थः । वर्णानां ब्राह्मणादीनां विनेता विनयकर्ता । निकषः 'कसौटी' इति प्रसिद्धः । 'निकषः कषपट्टिका' इत्यमरः । धर्माधिकारो धर्मजिज्ञासाभियोगः । तत्र सर्वधुरीण: सर्वभारवाही । 'खः सर्वधुरात्' इति खः । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचार्यादयः। उपबुभुक्षामह उपभोक्तुमिच्छामः । भुजेः सन्नन्तात् 'पूर्ववत्सनः' इति तटु । कालक्षेपे पुनः इति छलोक्तिः । 'वाक्यं वाक्यान्तरासक्तमर्थान्तरस्य सूचकम् । यत्र सा स्याच्छलोक्तिस्तु नाट्यालंकारसंमता ॥' इति भरतः । यथोत्तरचरिते-'किमस्या न प्रेयो यदि परमसह्यम्तु विरहः' इति । मन्थरानाम्नी प्रतीहारी । दौर्मनस्यं विमनस्कत्वं कर्तृ । १. 'अमृतमयम्'. २. 'वयमपि इति पुस्तकान्तरे नास्ति. ३. 'उपभोक्ष्यामहे'.४. एवमनुष्टातव्यम्'. ५. 'तातो' इति पुस्तकान्तरे नास्ति. ६. 'आर्थ' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy