SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० . काव्यमाला । एहि विष्टरपौदार्थमधुपर्कैरुपस्थितान् । इक्ष्वाकुंश्च विदेहांश्च पुनीहि भगवन्नमून् ॥ ६० ॥ जामदग्यः-वत्स, अपरिहार्यमेवं ह्यातिथ्यं राजन्यश्रोत्रियाणाम् । किं पुनरेवंविधवैखानसोचिताचारस्खलितविलक्षो न शक्नोमि धर्माचार्य याज्ञवल्क्यमुपेत्यावलोकितुम् । आचारस्तु दूरादपि कृतः कृतः स्यात् । (किंचिदुच्चैनैपथ्याभिमुखम् ।) यस्य स्मृतीः प्रतीक्षन्ते चतुर्वर्गे मनीषिणः । नमो भगवते तस्मै याज्ञवल्क्याय योगिने ॥ ६१ ॥ (नेपथ्ये ।) गायत्री द्रुपदा देवी पाप्मानमपहन्तु ते । पुनन्तु पावमान्यस्त्वामृध्नोतु ब्रह्म ते परम् ॥ ६२ ॥ जामदग्यः-भगवन्, अपत्रपमाणो न भवन्तं द्रष्टुमुत्सहे । तदनुमन्यस्व मामरण्याय । (नेपथ्ये।) शिवास्ते पन्थानो व्रज निजगृहेभ्यो निजगृहा _न्किमन्यत्सर्वेषां गुणमय शिरोमाल्यमसि नः । स्वपतेढञ्' विष्टरमासनम् । 'वृक्षासनयोविष्टरः' इति निपातनम् । आतिथ्यमतिथिसत्कारः । ब्राह्मणादित्वात्ष्यञ् । वैखानसो नाम मुनिस्तेन प्रोक्तमधीयते वैखानसास्तृतीयाश्रमस्था मुनयः । वैखानसो वानप्रस्थो गृह इति पर्यायाः । स्खलितं स्खलनम् । दूरादेवास्माभिरर्धादि प्रतिगृह्यत इति भावः । स्मृतीः स्मृतिवाक्यानि । चतुर्वर्गे धर्मार्थकाममोक्षे । 'त्रिवर्गो धर्मकामाथैश्चतुर्वर्ग: समोक्षकैः' इत्यमरः । प्रतीक्षन्ते चिन्तयन्ति प्रमाणयन्तीति यावत् । योगिने योगियाज्ञवल्क्यायेत्यर्थः । गायत्री सावित्रीमन्त्रः। यद्वा गायत्रीमन्त्रे ध्येया देवता। द्रुपदा 'द्रुपदादिव मुमुचानः' इत्यादि मन्त्रः । पाप्मानं पापम् । पावमान्यो ऋग्विशेषाः । परं ब्रह्म तत्त्वज्ञानम् । ऋनोतु उपचितिं यात्वित्यर्थः । अपत्रपमाणोऽन्यतो लज्जमानः। 'लजा सापत्रपान्यतः' इत्यमरः । अरण्याय गन्तुमित्यर्थः । 'क्रियार्थोपपद-' इत्यादिना चतुर्थी । शिवाः कल्याणदाः पन्थानः । सन्त्विति शेषः । हे गुणमय । 'तत्प्रकृतवचने मयट्' । नोऽस्माकं सर्वेषां शिरोमाल्यं शिरसि पुष्पं माला वा । 'पुष्पपुष्पस्रजोमाल्यम्' इत्यमरः । निर्माणं सृष्टिः । स्थितिः १. 'पाद्यार्घ'; 'पाद्यार्थ्य'. २. 'एव हि' इति पुस्तकान्तरे नास्ति. ३. 'अवलोकयितुम्'. ४. 'कृतकृत्यः'. ५. 'अभिमुखः'. ६. 'अपेक्षन्ते'. ७. 'त्रिपदा'. ८. 'अरण्यगमनाय'. ९. "शिरोरत्नम्'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy