SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] अनर्घराघवम् । (ततः प्रविशतो रामजामदग्यौ ।) रामः--भगवन्भार्गव, परैराहूतानां विहितमपि शस्त्रं भवतु नः प्रकृत्या विप्रेभ्यः पुनरकृतशिल्पा रघुभुवः । चिरादण्डीरेण त्वयि तदपि रामे न गणितं तपोविद्यावीरव्रतमय मयि क्षाम्यतु भवान् ॥ ५८ ॥ जामदम्यः—(विहस्य ।) कथमपराद्धमस्मासु वत्सेन । यदर्थमस्माभिरिह प्रकोपितस्तदद्य दृष्ट्वा तव धाम वैष्णवम् । विशीर्णसर्वामयमस्मदान्तरं चिरस्य कंचिल्लघिमानमश्नुते ॥ ५९ ॥ रामः-इत इतो भगवन् ।। जामदग्न्यः--(रामस्य चिबुकमुनमय्य सस्मितम् ।) वत्स, अप्रशस्तः खल्वारण्यकानां जनपदेषु चिरप्रचारः । तत्क पुनरस्मान्नेष्यसि । रामः-भगवन्, भंगवतो याज्ञवल्क्यस्यावसथे कृतातिथेयसंविधानौ तातजनको भवन्तमनुपालयतः । इत्यर्थः । 'मूलविभुजादिभ्यः कः' । चकृषे आकृष्टम् । कर्मणि लिट् । संधाय शरं संयुज्य । गतिः स्वर्गगमनम् । अमोघः सफलः । परैः शत्रुभिः । आहूतानामास्कन्दितानाम् । यद्वा युक्तानाम् । युद्धार्थमिति शेषः । विहितं विधिबोधितम् । प्रकृत्या स्वभावेन । रघुभुवो रघुवंश्याः । विप्रेभ्योऽकृतशस्त्राभ्यासाः । अण्डीरेण दर्षिष्ठेन मया त्वयि रामे परशुरामे तदपि न गणितं नावगतम् । 'रामेण गुणितम्' इति पाठे रामेण मया चिरेण गुणितं प्रमाणीकृतम् । अण्डीर इति 'काण्डाण्डादीरनीरचौ' इतीरच् । 'अण्डीरः पुरुषे शक्ते' इति मेदिनीकरः । यदर्थमिति । यदर्थमस्माभिस्त्वं प्रकोपितोऽसि तद्वैष्णवं विष्णुसंबन्धि धाम तेजस्तव दृष्ट्वा ममैतदान्तरम् । अन्तरेवान्तरम् । स्वार्थेऽण् । किंचिल्लघिमानमल्पलघुत्वमश्नुते प्राप्नोति । कीदृशम् । विशीर्णो नष्टः सर्व आमयो रागा. दिरोगो यत्र तत् । वैष्णवधामदर्शनादेवेति भावः । 'अस्मदन्तरम्' इति पाठे मम हृदयमित्यर्थः । 'गर्वामयम्' इति पाठे अहंकाररूपरोगमित्यर्थः । इत इत इह इह । आगच्छेति शेषः । अधराधश्चिवुकम् । 'अधस्ताच्चिबुकम्' इत्यमरः । उन्नमय्योत्तोल्य । 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । आरण्यकानामरण्यवासिनाम् । 'अरण्यान्मनुष्ये' इति वुञ् । प्रचारो गमनम् । अवसथे गृहे । अतिथौ साधु आतिथेयम् । 'पथ्यतिथिवसति १. 'ततः प्रविशति रामः परशुरामच'. २. 'मम'. ३. 'दृष्टम्'. ४. 'भवान्'; 'भगवान्'. ५. 'तत्कथम्'. ६. 'भगवतः' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy