________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
काव्यमाला। रामः-(गृहीत्वा ।) भार्गव, समन्तादुद्धातिनी भूमिरियम् । तदेहि, विमर्दक्षमं प्रदेशान्तरमवतरावः ।
जामदग्यः--(सरो) परिक्रामन् ।) भो भोः क्षात्रेण ब्राह्मण च तेजसा विकत्थमानाः, तदत्र
भवतु शरणदो वा सर्वशस्त्राभिसारः
प्रतिविदधतु वास्मिन्नाशिषो वैजयिक्यः । अदशरथमरामं निर्विदेहेन्द्रमुर्वीवलयमिह विधत्ते रोषणो रेणुकेयः ॥ ५६ ॥
(इति निष्क्रान्तौ ।)
(नेपथ्ये ।) भो भोः पौरजानपदाः, प्रवर्त्यतां माङ्गलिकमातोद्यम् । प्रसज्यतामयमपि वैदेहीविवाहमहोत्सवो जामदग्यविजयोत्सवेन ।
कन्यां काचिदिहापि कर्मणि पणः स्यादित्यसूयावल
सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलिप्ती दिवम् । कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः
संधायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥ ५७ ॥
'उद्घातस्तु पुमान्पादस्खलने समुपक्रम' इति मेदिनीकरः । विकत्थमानाः श्लाघमानाः । शरणं रक्षणम् । 'शरणं रक्षणेऽपि च' इति धरणिः । सर्वशस्त्राभिसारः सर्वयोधैरेकदैव सर्वशस्त्रेण युद्धम् । प्रतिविदधतु प्रतीकारं कुर्वन्तु । वैजयिक्यो विजयप्रयोजनाः। 'तदस्य प्रयोजनम्' इति ठक् । रोषणो रोषशील: । 'धमण्डार्थेभ्यश्च' इति युच् । रेणुका परशुराममाता ! तस्या अपत्यं रैणुकेयः । 'स्त्रीभ्यो ढक्'। निष्कान्तौ रामपरशुरामौ । मङ्गलाय प्रभवति माङ्गलिकम् । 'तस्मै प्रभवति संतापादिभ्यः' इति ठक् । आतोद्यं वीणामुरजवंशकांस्यवाद्यम् । 'चतुर्विधमिदं वाद्यं वादिनातोद्यनामकम्' इत्यमरः । प्रसज्यतामारभ्यताम् । यद्वा प्रसज्यतां प्रसङ्गादेव निष्पाद्यताम् । अन्यथानुष्टितस्यान्यदीयोपकारजननसामर्थ्य प्रसङ्गः । यथा प्रासादे देवाय दत्तस्य दीपस्य राजमार्गावलोककरणसामर्थ्यम् । इहापि कर्मणि नारायणीयधनुर्भङ्गेऽपि । पणः शुल्कः । अपाङ्गो नेत्रप्रान्तो नेत्रान्तदर्शनं वा । ज्योत्स्ना कान्तिः । विलिप्तीमल्पविलिप्ताम् । 'तादल्याख्यायाम्' इति ङीष् । दिवमाकाशम् । उद्वहः पुत्रः । यद्वा रघुमुदहति रघुवंशधारक
१. 'प्रसर्पतामयं वैदेहीविवाहोत्सवो जामदग्यविजयमहोत्सवेन'; 'प्रसज्जतामयमपि-विजयेन'. २. 'शरं च'.
For Private and Personal Use Only