SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा ॥ पिंडीतको मरुबकः श्वसनः करहाटकः॥५२॥ शल्यश्च मदने शक्रपादपः पारिभद्रकः॥ भद्दारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३॥ प्रतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः॥ पाटलिः पाटला. ऽमोघा काचस्थाली फलेरुहा ॥५४ ।। कृष्णता कुबेराक्षी श्यामा तु महिलाव्हया॥ लता गोवंदिनी गुंद्रा प्रियंगुः फलिनी फली॥५५॥ विष्वक्सेना गंधफली कारंभा प्रियकश्च सा॥ मंडूकपर्णपत्रोर्णनटकटुंगटुंटुकाः ॥५६॥ स्पोनाकशुकनासक्षदीर्घवृंतकुटंनटाः॥ त्ययः। शमी सक्तुफला "सक्नुफली" शिवा त्रयं शम्याः । पिडीतकः मरुबकः श्वसनः करहाटकः॥५२॥ शल्यः मदनः षटं गोळा इति ख्यातस्य । शक्रपादपः पारिभद्रकः। पारिभद्रस्तु निंबद्रौ मंदारे देवदारुणि । भद्रदारु दुकिलिमं पीतदारु दारु ॥५३॥ पूतिकाष्ठं एतानि सप्त देवदारुणि । पाटलिः “ पाटली" पाटला मोघा " अमोघा । अलिप्रिया विशालामा ऽप्यमोघा पाटलियोः इति वाचस्पतिः।" काच. स्थाली । “काला स्थाली फलेरुहेत्यपि पाठस्तत्र काला स्थाली इति पदद्वयम् । काला तु कृष्णताख्या मंजिष्ठा नीलिकासु चेति मेदिनी । स्थाली स्यात्पाटलोख. योरिति मेदिनीविश्वप्रकाशौ ।” फलेरुहा ॥ ५४॥ कृष्णवृंता कुबेराक्षी सप्त पाटलायाः “पाडळी इति ख्यातायाः।" तत्र पाटलियोः । श्यामा महिलाव्हया लता गोवंदिनी गुंद्रा प्रियंगुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गंधफली कारंभा प्रियकः द्वादश प्रियंगुवृक्षे "वाघांटी इति ख्याते ।" महिलायाः स्त्रियाः आव्हय इव आव्हयो यस्याः सा । महिलायाः समग्रनामभिरभिधीयत इत्यर्थः । तत्र प्रियकः पुंसि । शेषं स्त्रियाम् । मंडूकपर्णः पत्रोर्णः नटः कटुंगः टुंटुकः ॥५६॥ सोनाकः " श्योनाकः शोणाकः" शुकनासः ऋक्षः दीर्घवृतः कुटनटः शोणकः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy