SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् काकेंदुः कुलकः काकतिंदुकः काकपीलुके ॥ गोलीढो झाटलो घंटापाटलिर्मोक्षमुष्कको ॥३९॥ तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ ॥ श्रीपर्णिका कुमुदिका कुंभी कैडर्यकट्फलौ ॥ ४० ॥ क्रमुकः पट्टिकारख्यः स्यात्पट्टी लाक्षाप्रसादनः ॥ तूंदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च नीपप्रियककदंबास्तु हरिप्रियः॥ वीरवृक्षो ऽरुष्करो ऽमिमुखी भल्लातकी त्रिषु ॥ ४२ गर्दभांडे कंदरालकपीतनसुपार्श्वकाः॥ तेंड टेंभुरणी इति ख्यातस्य ॥ ३८ ॥ काकेंदुः कुलकः काकतिदुकः काकपीलुकः चत्वारि कांकतेंडू “काकटेंभुरणी, कडूटेंभुरणी इति, कुचला, काजरा" इति ख्यातस्य । गोलीढः झाटलः घंटापाटलिः मोक्षः मुष्ककः पंच घंटापाटले: "मोरवा इति प्रसिद्धस्य ।” घंटा पाटलिरिति नामद्वयं वा ॥ ३९॥ तिलकः क्षुरकः श्रीमान् । श्रीमान् तिलकवृक्षे स्यान्मनोज्ञे धनिके त्रिषु इति कोशांतरम् । वयं तिळवा "तिलकपुष्प" इति ख्यातस्य । पिचुलः झावुकः द्वे झाबुकस्य । तिलकभेदो ऽयम् । “कोबी इति ख्यातेयमिति केचित्।” श्रीपर्णिका कुमुदिका कुंभी कैडर्यः कटफलः पंच कुंभल "कुंभ्या इति, कायफल" इति ख्यातस्य कुंभी स्त्री॥४०॥ क्रमुकः पट्टिकाख्यः पट्टी लाक्षाप्रसादनः । लाक्षा प्रसीदति अनेन । करणे ल्युट् । लोध्रचर्णेन लाक्षारंगोऽतितरां रज्यत इत्यनुभवसिद्धम् । चत्वारि लोहितलोध्रस्य । पट्टिका आख्या यस्य सः । पट्टो ऽस्यास्तीति पट्टी । इन्नंतः । “ ङीषंतो वा।" तूदः “नदः" यूपः क्रमुकः ब्रह्मण्यः ब्रह्मदारु ॥ ११ ॥ तूलं “ तूलो ऽपि " षटुं अश्वत्थाकारे वृक्षभेदे “ पारसा पिंपळ इति ख्यातस्य । " नीपः प्रियकः कदंबः हरिप्रियः । हलिप्रिय इत्यपि पाठः । हलिनः प्रियः । सुराया अधिवासनात् । चत्वारि कळंब इति ख्यातस्य । वीरवृक्षः अरुष्करः अग्निमुखी भल्लातकी चखारि “विबवा भिलावा इति ख्यातस्य " ॥ ४२ ॥ गर्दभांडः कंदरालः कपीतनः सुपार्श्वकः लक्षः पंच गजहंड “ लाखी पिंपरी" इति ख्यास्य । तितिडी " तितिली । अ १२ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy