SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वनौषधिवर्गः शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ राजादनं प्रियालः स्यात्सनकद्रुर्धनुःपटः॥ गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्वाप्यथ दयोः॥ कर्कर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६॥ सौवीरं बदरं घोंटाऽ प्यथ स्यात्स्वादुकंटकः॥ . विकंकतः स्रुवावृक्षो ग्रंथिलो व्याघ्रपादपि ॥ ३७॥ ऐरावतो नागरंगो नादेयी भूमिजंबुका ॥ तिंदुकः स्फूर्जकः कालस्कंधश्च शितिसारके ॥ ३८॥ "गुग्गुलः" पुरः पंच गुग्गुलवृक्षस्य । पुरो ऽदंतः । शेलुः “सेलुः" श्लेष्मातकः शीतः उद्दालः बहुवारकः पंच शेलट “भोंकरी” इति ख्यातस्य ॥ ३४॥ राजादनं "राजातनः राजादनः । राजादनं प्रसरको राजातन इति वाचस्पतिः ।" प्रियालः "पियालश्च प्रियालक इति माधवः ।" सन्नकद्रुः धनुःपटः चत्वारि चार इति ख्यातस्य । धनुः पट इति व्यस्तमपि । धनुः प्रियाले ना न स्त्री राशिभेदे शरासन इति मेदिनी । पटः प्रियालवृक्षे ना सुचेले पुनपुंसकमिति रभसः । गंभारी "कंभारी" सर्वतोभद्रा काश्मरी “कार्मरी" मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी काश्मयः सप्त शिवणी इति ख्यातस्य । काश्मर्यो ऽदंतः पुंसि । कर्कः “कधुः" बदरी कोलिः “कोली कोला" त्रीणि बोर इति ख्यातस्य । तत्र कर्कंधूईयोः स्त्रीपुंसयोः । कोलं कुवलं फेनिलम् ॥ ३६ ॥ सौवीरं । “यबि सौवीर्य ।" बदरं घोंटा षटं बदरीफलस्य । घोंटाशब्दो बदरीसदृशे वृक्षभेदे ऽपि वर्तते । बदरीसहशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोंटा गोपघंटेति चोच्यत इति सुभूत्युक्तेः ।" स्वादुकंटकः विकंकतः “वैकंकतः" स्रुवावृक्षः स्रुवायाः वृक्षः सुवानाम होमपात्रभेदः । ग्रंथिलः व्याघ्रपात् पंच विकंकतस्य "वेहळी इति ख्यातस्य ।" अयं यझियवृक्षभेदः करनाटकभाषया हलुमाणिका इति ख्यातः ॥ ३७ ॥ ऐरार्वतः नागरंगः नादेयी भूमिजंबुका चत्वारि नागरंगस्य मारिंग इति ख्यातस्य । “अत्र पूर्वद्वयं नागरंग्याः अपरद्वयं भूमिजंब्वा इत्यपि मतम् ।” तिंदुकः “तिंदुकी" स्फूर्जकः कालस्कंधः शितिसारकः चत्वारि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy