SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८७ हितीयं कांडम्. दौ परिव्याधविदुलौ नादेयी चांबुवेतसे ॥३०॥ सोभांजने शिगुतीक्ष्णगंधकांक्षीवमोचकाः॥ रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥३१॥ बिल्वे शांडिल्यशैलूषौ मालूरश्रीफलावपि ॥ प्लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाटः॥ ३२॥ गालवः शाबरो लोध्रस्तिरीटस्तित्वमार्जनौ ॥ आम्रचूतो रसालो ऽसौ सहकारो ऽतिसौरभः॥३३॥ कुंभोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः॥ पारद्रुमेषु चेत्यजयात्" । वानीरः वंजुलः सप्तकं वेतसस्य “वेत इति ख्यातस्य।" परिव्याधः विदुलः नादेयी अंबुवेतसः चत्वारि जलवेतसस्य । नादेयी स्त्री ॥३०॥ सोभांजनः “ सौभांजनः शोभांजनः शौभांजनः" शिग्रुः तीक्ष्णगंधकः अक्षीव: "आक्षीवः" मोचकः पंचकं शेगूल “शेवगा, शेगट” इति ख्यातस्य । असौ सौ. भांजनो रक्तो रक्तपुष्पश्चेन्मधुशिग्रुरित्युच्यते एकम् । अरिष्टः फेनिलः द्वे रिठा इति ख्यातस्य । “अन्यत्र रिष्टमित्यपि । रिष्टं क्षेम शुभाभावे पुंसि खड़े च फेनिल इति मेदिनी" ॥ ३१॥ बिल्वः शांडिल्यः शैलूषः मालूरः श्रीफलः पंचकं बिल्वस्य । प्लक्षः जटी “जटिः" पर्कटी “पर्कटिः" त्रयं पिंपरी इति ख्यातस्य । अयं गोमांतकभाषया केळा इति ख्यातः । तत्र जटीपर्कटिनाविनंतौ । पर्कटी ङीषंतेति कश्चित् । न्यग्रोधः बहुपात् वटः त्रयं वटस्य ॥ ३२ ॥ गालवः शाबरः “साबरः" लोध्रः तिरीटः सिल्वः मार्जनः षटुं लोध्रस्य । “तत्राद्यौ श्वेतलोधे शेषा रक्तलोधे इत्येके।" आम्रः चूतः रसालः त्रयं आम्रस्य।असौ आम्रोऽतिसौरभश्चेत्सहकार इत्येकम्॥३३॥ कुंभः उलूखलकं । कुंभेति संघातविगृहीतम् । कुंभमिति क्लीबमपि । कार्मुके वारनार्या च कुंभं क्लीबं तु गुग्गुलाविति रभसः । कुंभं त्रिवृत्तिगुग्गुलाविति विश्वप्रकाशः । उदूखलमित्यपि । उदूखले गुग्गुलौ स्यादुलूखले ऽपि न द्वयोरिति मेदिनी । उलूखले गुग्गुलौ च क्लीबमुक्तमुदूखलमिति रुद्रः । अत्र पक्षे कुंभं चोदूखलमिति पाठः कर्त्तव्यः । कुंभोलूः खलकं । कुंभोलूखलकं । कुंभोलूखलकारादृक्षकोशानिर्यातम् । कुंभोलूखलकं कुभं कुंभोलूखलकं वरमिति वाचस्पतिः । कौशिकः गुग्गुलुः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy