SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. तस्मिन्दधिफलः पुष्पफलदंतशठावपि ॥२१॥ उदुबरो जंतुफलो यज्ञांगो हेमदुग्धकः॥ कोविदारे चमरिकः कुद्दालो युगपत्रकः॥२२॥ सप्तपर्णो विशालत्वक् शारदो विषमच्छदः॥ ऑरग्वधे राजवृक्षशम्याकचतुरंगुलाः॥ २३॥ आरेवतव्याधिघातकृतमालसुवर्णकाः॥ स्युर्जबीरे दंतशठजंभजंभीरजंभैलाः॥२४॥ वरुणो वरणः सेतुस्तिक्तशाखः कुमारकः॥ पुन्नागे पुरुषस्तुंगः केसरो देववल्लभः॥२५॥ कपित्थस्य " कवठ इति प्रसिद्धस्य" ॥ २१॥ उदुंबरः " मेदिन्यां टवर्गतृतीयमध्यः । त्रिकांडशेषेऽप्येवमेव" । जंतुफलः यज्ञांगः हेमदुग्धकः चत्वारि उदुंबरस्य उंबर इति ख्यातस्य । उदुंबरे जंतुफल इति सप्तम्यंतपाटोऽपि । कोविदारः चमरिकः कुदालः युगपत्रकः चत्वारि कांचन इति ख्यातस्य ॥ २२॥ सप्तपर्णः कांडे कांडे सप्त पर्णानि अस्य । विशालत्वक् शारदः " उन्धंतो ऽपि । शारदी तोयपिप्पल्यां सप्तपणे चेति दत्यांतेषु रुद्रः । शारदो ऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोरिति मेदिनी।" विषमच्छदः चत्वारि सांतवण इति ख्यातस्य । दुरधिगमवस्तुनः प्राकृतसंज्ञयापि व्याख्याने न दोषः । यदुक्तम् । प्रयोजनार्धा वचनप्रवृत्तिर्यतस्ततः प्राकृतमित्यदोष इति । किंच । रसवीर्यविपाकेभ्यो मूलात्पुष्पात्फलाहलात् । आकारादेशकालादेवनौषध्यर्थमुन्नयेदिति । आरग्वधः “ अरग्वधः अर्वधः । भरग्वधो ऽथ शंपाकः कृतमालस्तथाऽवध इति रत्नकोशः।" राजवृक्षः वृक्षाणां राजा राजवृक्षः राजदंतादिवत् परनिपातः । शम्याकः “संपाकः शंपाकश्च । संपाकस्तर्कके धृष्टे त्रिषु ना चतुरंगुल इति मेदिनी ।” चतुरंगुलः ॥ २३ ॥ आरेवतः व्याधिघातः कृतमालः सुवर्णकः “सुपर्णकः” अष्टौ बाहवा इति ख्यातस्य । जंबीरः “ जंबिरः" दंतशठः जंभः जंभीरः जंभल: “जंभरः" पंचकं जांघेर “ लघु इडनिवू" इति ख्यातस्य ॥ २४॥ वरुणः वरणः सेतुः तिक्तशाखः कुमारकः पंच वायवर्णा इति ख्यातस्य । पुन्नागः पुरुषः तुंगः केसरः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy