SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः मकरंदः पुष्परसः परागः सुमनोरजः॥ १७॥ बिहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम्॥ आश्वत्थर्वणवलाक्षनैयग्रोधैगुदं फले ॥१८॥ बार्हतं च फले जब्बा जंबूः स्त्री जंबु जांबवम् ॥ पुष्पे जातीप्रभृतयः खलिंगा बीहयः फले ॥१९॥ विदार्याधास्तु मूले ऽपि पुष्पे क्लीवे ऽपि पाटला॥ बोधिद्रुमथलदलः पिप्पलः कुंजराशनः॥२०॥ अश्वत्थे ऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः॥ द्वे पुष्परेणोः । परागः कौसुमे रेणोधूलिः स्त्री नीपयोरपि ॥ गिरिप्रभेदे विख्यातावुपरागे च चंदने इति कोशांतरम् ॥ १७ ॥ सर्व वक्ष्यमाणं वृक्षलतौषधिजातीयं स्त्रीपुल्लिंगमपि ।अश्वत्थकपित्यादीनामभिधानं प्रसवे पुष्पे फले मूले च वर्तमानं तद्विहीनं ज्ञेयम् । द्वाभ्यां स्त्रीपुंसाभ्यां हीनं नपुंसकलिंगमित्यर्थः । यथा चंपकं आनं सूरणमित्यादि । तत्र विशेषमाह । हरीतक्याः फलं हरीतकी । आदिना कोशातकी कर्कटी द्राक्षेत्यादि । अश्वत्थस्य फलं आश्वत्थम् । वेणोः फलं वैणवम् । प्लक्षस्य फलं प्लाक्षम् । न्यग्रोधस्य फलं नैयग्रोधम् । इंगुद्याः फलं ऐंगुदम् । बृहत्याः फलं बार्हतम् । एकैकम् । प्लक्षादिभ्यो ऽणिति पुनरग्विधानात् अश्वत्थादिशब्देभ्यः फले लुङ्नास्तीत्यर्थः॥१८॥ जंबू: जंबु जांबवं त्रीणि जंब्वाः फले । जातीयथिकामल्लिकेत्यादयः पुष्पे वर्तमानाः स्वलिंगा एव स्युः न तु क्लीवे । यथा जात्याः पुष्पं जाती स्त्री । श्रीहयः फले स्वलिंगाः । यथा वीहीणां फलानि ब्रीहयः पुंसि । एवं माषमुद्यवादयोऽपि ज्ञेयाः । यथा माषाणां फलं माषाः ॥ १९ ॥ विदारी बृहत्यं शुमतीत्याद्या मलेऽपि स्वलिंगाः । यथा विदार्या मूलं विदारी । अपिशब्दात्पुष्पे ऽपि स्वलिंगाः पाटला पुष्पे वर्तमाना क्लीबे । यथा पाटलायाः पुष्पं पाटलम् । अपिशब्दात्स्वलिंगा। " पाटलः कुसुमे वर्णे ऽप्याशुव्रीहिश्च पाटल इति शाश्वतात्पुल्लिंगो ऽपि ।" बोधिदुमः चलदलः पिप्पलः कुंजराशनः । कुंजरेण अश्यते । अश भोजने कर्मणि ल्युट् ॥ २० ॥ अश्वत्थः पंच पिप्पलवृक्षस्य । कपित्थः । “ अमरमालायां पवर्गतृतीयमध्यो ऽपि ।” दधित्थः प्राही मन्मथः दधिफलः पुष्पफलः दंतशठः सप्तकं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy