SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४] हितीयं कांडम्. पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् ॥ पल्लवो ऽस्त्री किसलयं विस्तारो विटपो ऽस्त्रियाम् ॥१४॥ वृक्षादीनां फलं संस्यं तं प्रसवबंधनम् ॥ आमे फले शलाटुः स्याच्छुके वानमुभे त्रिषु ॥१५॥ क्षारको जालकं कीबे कलिका कोरकः पुमान् ॥ स्याद्गुच्छकस्तु स्तबकः कुडलो मुकुलो ऽस्त्रियाम् ॥ १६ ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ॥ " पर्णनिपत्रे पण तु पत्रे इति हैमः । पल्लवः किसलयं “किशलयमपि " हे पत्रादियुक्ते शाखायाः पर्वणि । तत्र किसलयं पुंसि क्लीवे च । “पुंसि क्लीबे च पल्लव इति तु व्याडिः ।" विस्तारः शाखापल्लवसमुदायलक्षण आभोगः विटप उच्यते एकम् । “ विटपो न स्त्रियां स्तंबशाखाविस्तारपल्लव इति मेदिनीकोशात् । शाखायां पल्लवे स्तंबे विस्तारे विटपो ऽस्त्रियामिति रभसाच्च । पल्लवादिचतुष्टयमेकार्थकं वा । अत्र यदुक्तं कात्येन । स्कंधादूर्ध्व तरोः शाखा कटको विटपो मत इति" ॥ १४ ॥ वृक्षादीनामिति पूर्वेणापि संबध्यते । वृक्षादीनां फलं सस्यमित्युच्यते । " तालव्याद्यपि" एकम् । प्रसवः पुष्पादिः बध्यते येन तत् वृंतमुच्यते एकं देंट, "डेंख" इति ख्यातस्य । बंधनं पुष्पयोर्भूतमाह कात्यः । आमे अपक्के फले शलाटुरित्येकम् । शुष्के फले वानमित्येकम् । उभे शलाटुर्वानं च त्रिषु त्रिलिंग्याम् ॥१५॥ क्षारकः जालकं द्वे नूतनकलिकायाः । तदि॒तस्येत्येके । तत्र जालकं क्लीबे एव । कलिका कोरकः द्वे अस्फुटितपुष्पस्य कळी इति ख्यातस्य । गुच्छकः स्तबकः द्वे कलिकादिभिराकीर्णस्य पल्लवग्रंथेः । “ विकासोन्मुखकलिकाया इति केचित् ।" स्तबके हारभेदे च गुत्सः स्तंबे ऽपि कीर्तित इति दंत्यांते रुद्रः। पुष्पादिस्तबके गुच्छ इति तालव्यांते रंतिदेवः । कुडलः मुकुलः द्वे ईषद्विकसितकलिकायाम् ॥१६॥ सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । “सर्वधातुसमानेषु समं स्यादाभिधेयवदिति मेदिनी ।" चत्वारि पुष्पस्य । “कुसुमं सममित्यपि पाठः । तत्र पुष्पस्य पंच नामानि ।" भूग्नि स्त्रियां सुमनस इति रत्नकोशः । सुमनाः पुष्पमालत्योः स्त्रियामिति मेदिनीकोशः । मकरंदः पुष्परसः द्वे पुष्पमधुनि । परागः सुमनोरजः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy