SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्ग: आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ॥ अमात्यगणिकागेहोपवने वृक्षवाटिका ॥२॥ पुमानाकीड उद्यानं राज्ञः साधारणं वनम् ॥ स्यादेतदेव प्रमदवनमंतःपुरोचितम् ॥३॥ वीथ्यालिरावलिः पंक्तिः श्रेणी लेखास्तु राजयः॥ वन्या वनसमूहे स्यादंकुरो ऽभिनवोदिदि ॥४॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरः॥ अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥५॥ वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः॥ गृहसमीपकृत्रिमवनेषु । “कुटागृहानिष्क्रांता निष्कुटाः।" ॥ १॥ यत्कृत्रिमं कृत्या निर्वृत्तं वनं तत्र आरामः उपवनं इति द्वे। वृक्षवाटिकेत्येकम् अमात्यानां वेश्यानां च यद्होपवनं तत्र ॥२॥ यद्राज्ञः साधारणं प्रमदाभिरन्यैर्वा सह क्रीडाद्यर्थं वनं तत्र आक्रीडः उद्यानमिति द्वे । “ज्ञेयमाक्रोडमुद्यानमित्यमरमालायामाक्रीडस्यापि क्लीयत्वमुक्तम् ।" मत उद्यानं अंतःपुरोचितं राज्ञीनामेव क्रीडायामुचितं चेत्प्रमदवनं स्यात् । ज्यापोः संज्ञाछंदसोरिति हस्वः । एकम् ॥३॥ वीथी " ङीषो विकल्पादन्यत्र वीथिरित्यपि।" आलिः वलिः पंक्तिः श्रेणी पंचकं पंक्तेः “आल्यादित्रीणि डीषि दीर्घातान्यपि। श्रेणी हस्वांतो ऽपि।" लेखाः "रेखाः" राजयः द्वे लेखानाम् । “सांतरा पंक्तिः । निरंतरा लेखाः । यथा विप्रपंक्तिः भस्मलेखा ।" वनानां समूहे वन्येत्येकम् । अभिनवोदिदि नूतनप्ररोहे अंकुर इत्येकम् । “अंकूरः । अंकूरश्चांकुरः प्रोक्त इति हलायुधः" ॥ ४॥ वृक्षः महीरुहः शाखी विटपी पादपः तरुः अनोकहः कुटः शाल: "सालः । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपीति । सालः पादपमात्रे स्यात्प्राकार इति मेदिनीविश्वकोशौ" । पलाशी Pः द्रुमः भगमः त्रयोदश वृक्षस्य ॥५॥ पुष्पाज्जातैः फलैरुपलक्षितो वृक्षो वानस्पत्यः एकं आम्रादेः । अपुष्पात्पुष्पं विना आतैः फलैरुपलक्षितो वृक्षो वनस्पतिः एकं पनसोदुंबरादेः । द्रुममात्रे ऽपि वनस्पतिः। " वनस्पतिर्ना दुमात्रे विना पुष्पं फलिद्रुम इति मेदिनीकोशात् ।" फलपाक ए. वांतो यासां ताः ओषध्यः स्युः एकं ब्रीहियवादेः । “ओषधिः फलपाकांता स्या For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy