SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. ओषध्यः फलपाकांताः स्युरवंध्यः फलेग्रहिः ॥६॥ वंध्यो ऽफलो ऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥७॥ फुल्लचैते विकसिते स्युवंध्यादयस्त्रिषु ॥ स्थाणुरू ना ध्रुवः शंकुर्हस्वशाखाशिफः क्षुपः॥८॥ अप्रकांडे स्तंबगुल्मौ वल्ली तु व्रततिर्लता ॥ लता प्रतानिनी वीरुगुल्मिन्युलप इत्यपि ॥ ९॥ नगाद्यारोह उच्छ्राय उत्सेधचोच्छ्रयश्च सः॥ दिति वा पाठः । डोषि ओषधी ।" अवंध्यः “ अबंध्यः" फलेपहिः फलानि गृण्हातीति फलेग्रहिः । फलेपहिरात्मभरिश्चेति सूत्रेणोपपदस्यत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । द्वे यथाकालं फलधरस्य ॥ ६॥ वंध्यः । “बंध्यः । बंधे साधुः यत्" अफलः अवकेशी त्रयं ऋतावपि फलरहितस्य । फलवान् फलिनः फली त्रीणि सफलस्य । फलिनो ऽदंतः । प्रफुल्लः उत्फुल्लः संफुल्लः व्याकोशः “मूर्द्धन्यांतो वा" विकचः स्फुटः॥ ७ ॥ फुल्लः एते ऽष्टौ विकसिते पुष्पिते स्युः । अवंध्यादयः अवंध्यो ऽफल इत्यादयो विकसितांताः त्रिषु त्रिलिंग्यां स्युः । स्थाणुः ध्रुवः शंकु: त्रीणि छिन्नविटपस्य प्रकांडे वा ना स्थाणुशब्दो विकल्पेन पुसीत्यर्थः । "रूपभेदात्लीबत्वम् । स्थाणुरस्त्रीति वा पाठः । स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुव इति मेदिनी ॥" शाखा प्रसिद्धा । शिफा वृक्षमूलम् । हस्वे शाखाशिफे यस्य स क्षुप इत्युच्यते एकम् ॥८॥न विद्यते प्रकांडो यस्य तस्मिन् स्तंबः गुल्मः इति द्वयम् । वल्ली “ सर्वधातुभ्य इन् । वल्लिः वेल्लिः । वल्ली तु वेल्लिः सरण इति वाचस्पतिः" । व्रततिः "प्रततिः व्रततीः । प्रततिव्रततीस्तथेति हलायुधः ।" लता त्रयं लतायाः।वीरुत् गुल्मिनी उलपः इति त्रयं या प्रतानिनी शाखादिभिर्विस्तृता लता तत्रेत्यर्थः । तत्र वीरुच्छब्दो धांतस्त्रियाम् ॥९॥नगाद्यारोहो वृक्षादीनामुञ्चत्वं तत्र उच्छायः उत्सेधः उच्छ्यः इति त्रयम् । “आरोहो दैर्ये ऽपि । आरोहो दैर्घ्य उच्छाये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोह इति हैमः । नगाद्यारोह इत्यादिना गिरिदेवालयादिग्रहः । उत्सेधमित्यपि । उत्सेधस्तूच्छये न स्त्री कीव संहनने ऽपि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy