SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. गव्हरं गंडशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥ "दंतकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ॥” खंनिः स्त्रियामाकरः स्यात्पादाः प्रत्यंत पर्वताः ॥ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥ धातुर्मनः शिलाद्यद्वेगैरिकं तु विशेषतः ॥ निकुंज कुंजी वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥ इति शैलवर्गः ॥ ॥ ५ ॥ अटव्यरण्यं विपिनं गहनं काननं वनम् ॥ महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥ For Private And Personal ७९ च । केचित्तु सूक्ष्मस्थूलभेदेन द्वाभ्यां द्वाभ्यां भेदमाहुः । ( गिरेः सकाशाच्युताः पतिता ये स्थूलपाषाणास्ते, गंडशैला इत्युच्यते । “ गिरेस्तिर्यक्प्रदेशाद्बहिर्निर्गताः शूलाकारपाषाणास्ते दंतका इत्येकम् " ॥ ६ ॥ खनिः “ खानी खानिः । खनिरेव मता खानिरिति द्विरूपकोशः । आकरः द्वे रत्नाद्युत्पत्तिस्थानस्य खाण इति ख्यातस्य । पादाः प्रत्यंतपर्वताः द्वे पर्वतसमीपस्थात्पपर्वतानाम्) । अद्रेरधः सन्नि हिताभूमिरुपत्यकेत्युच्यते एकम् | अद्रेरूव या भूमिः सा ऽधित्यका एकम् । उपाधिभ्यां त्यकन्नासन्नारूढयोरिति पाणिनिसूत्रेण सिद्धावेतौ शब्दौ ॥ ७ ॥ भद्रेयन्मनःशिलादि स धातुरित्युच्यते ( आदिना हरितालस्वर्ण ताम्रादिग्रहः । । “ तदुक्तम् । सुवर्णरौप्यताम्राणि हरितालं मनःशिला । गैरिकांजनकासीससीसलोहाः सहिंगुलाः ॥ गंधको saक इत्याद्या धातवो गिरिसंभवा इति । " गैरिकं विशेषतो धातुः विशेषेण धातुरित्येव प्रसिद्धमित्यर्थः एकम् | गेरू " काव" इति ख्यातस्य । निकुंज: कुंज: द्वे लतादिपिहितोदरे लताद्याच्छादितगर्भे स्थाने । “विकल्पेन द्वे hi अपि " | आदिना तृणादिग्रहः ॥ ८ ॥ इति शैलवर्गः ॥ ॥ ६ ॥ अटवी अरण्यं विपिनं गहनं काननं वनं षट्टमरण्यस्य । तत्राटवी स्त्रियाम् । “कृदिकारादिति ङीष्वा तेनान्यत्राटविरित्यपि । ” महारण्यं अरण्यानी । हिमारण्ययोर्महत्त्वे एव आनुगागमः ङीष् च । द्वे महतो वनस्य । अरण्यानी स्त्रियाम् । गृहारामाः निष्कुटाः द्वे
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy