SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शैलवर्गः हिमवानिषधो विध्यो माल्यवान्पारियांत्रिकः॥ गंधमादनमन्ये च हेमकूटादयो नगाः॥३॥ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ॥ कूटो ऽस्त्री शिखरं शृंगं प्रपातस्त्वैतटो भृगुः॥१॥ कटको ऽस्त्री नितंबो ऽद्रेः स्नुः प्रस्थः सानुरस्त्रियांम् ॥ उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥५॥ दरी तु कंदरो वा स्त्री देवखातबिले गुहा ॥ पर्वतः द्वे उदयाचलस्य ॥२॥ हिमवानित्यादयः सप्त पर्वतविशेषाः । आदिना मलयचित्रकूटमंदरादयः । रजताद्रिस्तु कैलास इंद्रकीलस्तु मंदरः ॥ अपि किष्किधकिष्किंध्यौ वानराणां गिरौ द्वयमित्यपि ज्ञेयाः ॥ १॥ एकैकम् । पारियात्रिका ठक । “पारियात्रक इत्यपि पाठः । गंधमादन इति पुल्लिंगो ऽप्यन्यत्र । स्याद्धमादनो भुंगे गंधके वानरांतरे ॥ स्त्री सुरायां नगे न स्त्रीति मेदिनी" ॥ ३ ॥ पाषाणः प्रस्तरः ग्रावा. उपलः अश्मा शिला दृषत् सप्त पाषाणस्य । शिलादृषदौ स्त्रियाम् । कूटः शिखरं शृंगं त्रयमपि पुनपुंसकलिंगं पर्वताग्रस्य । “अस्त्रीति पूर्वोत्तराभ्यां संबध्यते । शिखरवाची शृंगशब्दः क्लीब एव दृश्यते ।" प्रपातः अतुटः भृगुः त्रयं पर्वतात्पतनस्थानस्य । प्रपतत्यस्मिन्प्रपातः । न विद्यते तटो ऽत्रेत्यतटः। "प्रपातस्तु तटो भृगुरित्यपि पाठः। तत्र प्रपत्यते यतस्तटात् स तटो भृगुरिति" ॥४॥ भद्रेनितंबो मध्यभागः कटक इत्युच्यते एकम् । स्नुः प्रस्थः सानुः त्रीणि पुन्नपुंसक। लिंगानि समभूभागे पर्वतैकदेशे। तत्र स्नुः पुमानेवेति सर्वधरः । नौति प्रस्रवत्यंभः स्नुः । प्रतिष्ठंते ऽस्मिन्प्रस्थः । सनोति ददाति सुखं सानुः । “ सानुरस्त्रियौ इत्यपि पाठांतरम् ।" उत्सः प्रस्रवणं द्वे यत्र पानीयं निपत्य बहुलीभवति तस्य स्थानस्य । प्रस्रवत्यस्मिन्प्रस्रवणम् । वारिप्रवाहः निर्झरः झरः "झूषो दैवादिकात् पित्वादङिझरा । अचइः झरिः । ङीषि झरीच" त्रीणि झरा इति ख्यातस्य । पंचापि प. ोया इत्यन्ये ॥ ५॥ दरी कंदरः द्वे पर्वतस्य गृहाकारकृत्रिमविवरस्य । पक्षे कंदरा । गुहा गव्हरं द्वे देवखाते अकृत्रिमे बिले बिलविषये । केचिद्देवखातादि पर्यायचतुष्टयमाहुः । यत्कात्यः । देवखाते बिलं गुहेति । गव्हरं बिलदंभयोरिति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy