SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् . क्षिप्ते मुखं निःसरणं सनिवेशो निकर्षणम् ॥ समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९॥ ग्रामाते उपशल्यं स्यात्सीमसीमे स्त्रियामुभे॥ घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥२०॥ इति पुरवर्गः॥ महीधे शिखरिक्षमादहार्यधरपर्वताः॥ अदिगोत्रगिरिग्रावाचलशैलशिलोचयाः॥१॥ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ ॥ अस्तस्तु चरणक्ष्माभृदुदयः पूर्वपर्वतः॥२॥ इति द्वयम् ॥ १८ ॥ मुखं निःसरणं द्वे गृहादेर्मुखभूतस्य द्वारप्रदेशस्य "उसदार, पुढीलदार इति ख्यातस्य । निःसरंत्यनेन निःसरणम् ।" सन्निवेशः निकर्षणं द्वे समीचीनवासस्थानस्य । “पुरादौ गृहादिरचनापरिच्छिन्नदेशस्येत्यर्थः ।" संवसथः प्रामः द्वे प्रामस्य । वेश्मभूर्गृहभूमिः वास्तुरित्युच्यते द्वे “ गृहरचनावच्छिन्नभूमेः" ॥ १९ ॥ ग्रामांते ग्रामस्य समीपप्रदेशे उपशल्यमित्येकम् । ग्रामांतमुपशल्यमित्यपि पाठः । “ तत्र ग्रामस्यांतं समीपम्" । सीमा सीमा द्वे प्रामादेमर्यादायाम् । नामन् सीमन्नित्यादि निपातनात् पूर्वो नकारांतः । “उभे द्वे स्त्रियाम्" । घोषः आभीरपल्ली "आभीरपल्लिः" द्वे गोपालग्रामस्य तद्गृहस्य वा। कुटीकुप्रामयोः पल्लिरिति शाश्वतः । शबरस्यालयः पकण इत्युच्यते द्वे "भिल्लग्रामस्य ।" शबरो वनचांडालः ॥२०॥ इति पुरवर्गः ॥।॥ महीध्रः शिखरी क्ष्माभृत् अहार्यः धरः पर्वतः अद्रिः गोत्रः गिरिः ग्रावा अचलः शैलः शिलोच्चयः त्रयोदश पर्वतसामान्यस्य ॥१॥ लोकालोकः । लोकालोको प्रकाशांधकारावत्र स्तः । लोक दर्शने । चक्रवालः " चक्रवाडः" द्वे सप्तद्वीपवत्या भूमेः प्राकारभूते गिरौ । त्रिकूटः त्रिककुत् द्वे त्रिकूटाचलस्य । त्रिकूटं सिंधुलवणे त्रिकूटः पर्वतांतर इति हैमः । दांतः त्रिककुत् । अस्तः चरमक्ष्माभृत् द्वे अस्ताचलस्य । "अस्तं क्षिप्तेऽ प्यवसिते त्रिषु ना पश्चिमाचले इति विश्वमेदिन्यौ।" उदयः पूर्व For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy