SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [पुरवर्गः - सटीकामरकोशस्य गोपानसी तु वलभी छादने वक्रदारुणि॥ . कपोतपालिकायां तु विटंक पुनपुंसकम् ॥ १५॥ स्त्री दारं प्रतीहारः स्यादितर्दिस्तु वेदिका॥ तोरणो ऽस्त्री बहिर्दारं पुरद्वारं तु गोपुरम् ॥ १६ ॥ कूटं पूर्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु ॥ कपाटमररं तुल्ये तहिष्कंभो ऽर्गलं न ना ॥ १७॥ आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी॥ संमार्जनी शोधनी स्यात्संकरो ऽवकरस्तथा ॥ १८ ॥ स्य ।"छदिः सांतं स्त्रियाम् । छदिषौ ॥ १४॥ गोपानसी वलभी " वलभिः"। वडभीति मूर्धन्यमध्योऽपि । शुद्धांते वडभीचंद्रशाले सौधोवेश्मनीति रभसः । ओको गृहं पिटं चालो वडभी चंद्रशालिकेति त्रिकांडशेपः" द्वे छादनार्थ यद्वक्रदारु तत्र । पटलाधारभूतवक्रकाष्ठे इत्यर्थः । “पटलाधारवंशपंजरस्य ओमण कडणी वांसा इति प्रसिद्धस्य । सज्जा इत्यपि मतम् ।" कपोतपालिका विटंकं द्वे सौधादौ काष्ठादिरचितपक्षिगृहस्य ॥ १५॥ द्वाः - द्वारं प्रतीहारः “ प्रतिहारः" त्रयं द्वारस्य । तत्र द्वाः स्त्रियां रेफांतः । वितर्दिः “वितर्दी" वेदिका द्वे वेद्याः । "अंगणादिषु कृतस्योपवेशस्थानस्येति वा ।" वितर्दिः स्त्री । तोरणः बहिरं द्वे तोरणस्य “ द्वारबाह्यभागस्य ।" पुरद्वारं गोपुरं द्वे नगरद्वारस्य ॥ १६ ॥ पू रि नगरद्वारे सुखेनावतारणार्थं "क्रमनिम्नं" यन्मृत्कूटं क्रियते तत्र हस्तिनख इत्येकम् । कपाटं “कवाटम्"। कवाटश्च कपाटश्च त्रिषु स्यादररं न नेति वाचस्पतिः। कवाटश्चाररमिति त्रिकांडशेषः ।” अररं द्वे कवाड इति ख्यातस्य । ते त्रिषु । तत्र खियां कपाटी अररी। तद्विष्कंभः तस्य कपाटस्यावष्टंभक यन्मुसलं तदर्गलमित्युच्यते । अडसर इति लौकिकप्रसिद्धिः । तत्स्त्रीनपुंसकयोः । स्त्रियां त्वर्गला । “त. द्विष्कंभ्यर्गलमिति पाठः " ॥ १७॥ आरोहणं सोपानं द्वे सोपानस्य । “पायरी इति ख्यातस्य ।" निश्रेणिः । “निश्रेणी इत्यपि । नियता श्रेणिः पंक्तिरत्रेति निश्रेणिः ।" अधिरोहिणी द्वयं निसणी “ शिडी” इति ख्यातस्य । संमार्जनी शोधनी द्वे सारणी " केरसुणी" इति ख्यातस्य । तया संमार्जन्या निक्षिप्ते निरस्ते केर इति ख्याते संकरः । “संकार इति पाठे कर्मणि घञ् ।" अवकरः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy