SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2.] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् - अयनं वर्त्म मार्गावपंथानः पदवी सृतिः ॥ सरणिः पद्धतिः पद्या वर्त्तन्येकपदीति च ॥ १५ ॥ अतिपथाः सुपंथाच सत्पथवार्चिते ऽध्वनि ॥ व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥ अथास्वपथं तुल्ये शृंगाटकचतुष्पथे ॥ प्रांतरं दूरशून्यो ऽध्वा कांतारं वर्त्म दुर्गमम् ॥ १७ ॥ गव्यूतिः स्त्री कोशयुगं नत्वः किष्कुचतुःशतम् ॥ घंटापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ For Private And Personal ७१, " पदवि: " । सृतिः सरणिः । “शरणि: पथि चावलाविति तालव्यादिविजयातालव्यादिरपि । ङीषतो ऽपि " पद्धतिः " पद्धती " पद्या पादाय हिता पद्या । तस्मै हितमिति यत् । वर्त्तनी “ वर्तनिः वर्त्मनिः । वर्त्मनिर्वर्त्मनी पथीति हैमः । "" एकपदी द्वादश मार्गस्य || १५ || अतिपंथाः सुपंथाः सत्पथः त्रयं भचिते ऽध्वनि शोभने मार्गे || व्यध्वः दुरध्वः विपथः कदध्वा कापथः “ कुपथोSपि " पंच दुर्मार्गस्थ || तत्र कदध्वा नांतः || १६ || अपंथाः अपथं द्वे अमार्गस्य । शृंगाटकं चतुष्पथं द्वे चव्हाटा इति ख्यातस्य । दूरश्चासौ शून्यश्च दूरशून्यः । छायाजलादिवर्जितो दूरस्थो ऽध्वा मार्गः प्रांतरमित्युच्यते । एकम् । यद्दुर्गमं चोर'कंटकावयुक्तं वर्त्म मार्गः कांतारमित्युच्यते । पुंसि कांतारः । कांतारीSी महारण्ये बिले दुर्गमवर्त्मनीति मेदिनी । एकम् ॥ १७ ॥ क्रोशयुगं गव्यूतिरित्युच्यते । क्रोशो धनुःसहस्रे द्वे धनुर्हस्तचतुष्टयम् ॥ “ द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितमिति शब्दार्णवात्पुंस्यपि । क्लीबे तु गव्यूतम् । धन्वंतरसहस्रं तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तदिति वाचस्पतिः ।” किष्कृणां हस्तानां चतुःशतं “चतुःशती वा” नल्व इत्युच्यते । चतुःशतहस्तमितं स्थानं नत्वसंज्ञकमित्यर्थः । एकम् ॥ घंटापथः संसरणं द्वे राजपथमात्रस्य । घंटोपलक्षितगजादीनां पंथाः घंटापथः । “ दशधन्वंतरी राजमार्गो घंटापथः स्मृत इति चाणक्य : " । तत्संसरणं पुरस्य नगरस्य चेदुपनिष्करमित्येकम् । बुधैः संसरणं वर्त्म गजादीनामसंकुलम् । पुरस्योपस्करं वोक्तमिति 2
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy