SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. प्रत्यंतो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः॥७॥ आर्यावर्तः पुण्यभूमिमध्यं विध्यहिमालयोः॥ नीजनपदो देशविषयौ तूपवर्तनम् ॥८॥ त्रिष्वागोष्ठानडपाये नड्वान्नवल इत्यपि ॥ कुमुद्दान्कुमुदपाये वेतस्वान्बहुवेतसे ॥ ९॥ शाईलः शादहरिते सजंबाले तु पंकिलः॥ जलपायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥१०॥ स्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुराविर्तमतः परमिति ।" मध्यदेशः मध्यमः द्वे । एतत्परिमाणं तु । हिमवद्विंध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तित इति ॥ विनशनं तीर्थभेदः । “कुरुक्षेत्रम्" ॥७॥ आर्यावर्तः पुण्यभूमिः द्वे विध्यहिमाचलयोरंतरस्य । उक्तं च । आसमुद्राच वै पूर्वादासमुद्राच्च पश्चिमात् ॥ तयोरेवांतरं गिर्योरार्यावर्त्त विदुर्बुधा इति । "हिमप्रधानो ऽग: हिमागः । हिमेनाल्यते हिमालः। अल भूषणादौ घञ्। हिमागयोरित्यपि पाठः।" नीवृत् जनपदः द्वे जनैस्यिमानराष्ट्रस्य मगधादेः । नीवृत्पुंसि साहचर्यात् । नियतं वर्तते ऽस्मिन्नीवृत् । नहिवृतीति दीर्घः । “जनः पदं वस्तु यत्र जानपदो ऽपि । भवेज्जनपदो जानपदो ऽपि जनदेशयोरिति विश्वमेदिन्यौ।" देशः विषयः उपवर्तनं त्रीणि . ग्रामसमुदायलक्षणस्य देशमात्रस्य ॥ ८॥ अथ गोष्ठशब्दमभिव्याप्य वक्ष्यमाणाः त्रिषु । त्रिषु लिंगेषु इत्यर्थः । नड्डान नड्डलः द्वे नडप्राये नडबहुले देशे । कुमुदानित्येकं कुमुदप्राये । वेतस्वानित्येक बहुवेतसे । बहवो वेतसा वानीरा यत्र तस्मिन् देशे। तदस्मिन्नस्तीत्यर्थे कुमुदनडवेतसेभ्यो इंतुप् ॥ ९॥ शादै लतृणैर्हरिते देशे शादल इत्येकम् । शादाः संत्यस्मिन् शार्लः । एतौ मध्यटवर्गीयौ । वैडूर्यमणिशाङ्कलाविति द्विरूपकोशात् । शावल इत्यपि पाठः । सजंबाले कर्दमयुक्ते देशे पंकिल इत्येकम् । जलप्रायं अनूपं द्वे जलबहु. लदेशस्य । अनुगता आपो ऽत्र अनूपं । अनूपदेशलक्षणम् । नानाद्रुमलतावीरुन्निर्झरप्रांतशीतलैः ॥ वनैाप्तमनूपं तत् सस्यै/हियवादिभिः॥ तथाविधः अनूपसंदृशः कश्चिन्नयादेरुपांतदेशः कच्छ इत्युच्यते । एकम् । कच्छशब्दस्य पुंसीति विशेषनिध्विति पूर्वोक्तस्य बाधनार्थः । कच्छ इत्यनूपस्यैव पर्याय इति केचित् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy