SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ भूमिवर्गः मृमृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ॥ उर्वरा सर्वसस्यादया स्यादूषः क्षारमृत्तिका ॥ ४॥ ऊषवानूषरो द्वावप्यन्यलिंगी स्थलं स्थली ॥ समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥ त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ॥ orat sयं भारतं वर्ष शरावत्यास्तु यो ऽवधेः ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ॥ मृत्सा मृत्स्ना सस्नो प्रशंसायाम् । द्वे प्रशस्तमृदः । प्रशस्ता मृत्तिका त्वित्यन्वयः । कृष्णभूमः कृष्णमृत्स्यादुदग्भूम उदङ्मृदि । पांडुभूम: पांडुमृचेत्यपि पठ्यते ॥ सर्वैः सस्यैराव्या मृत्तिका उर्वरेत्युच्यते एकम् । ऊषः क्षारमृत्तिका द्वे क्षारमृत्तिकायाः । ऊषो ऽदंतः || ४ || ऊषवान् ऊषर : द्वयं क्षारमृद्विशिष्टस्य । द्वावप्यन्यलिंगौ । यथा ऊषवती ऊपरा वा स्थली | ऊपरं स्थलमित्यादि । स्थली अकृत्रिमस्थानस्य । “कृत्रिमा तु स्थला | स्थलमुभयसाधारणम् । " मरुः धन्वा द्वे मरुदेशस्य | निर्जलो ऽयम् । म्रियते पिपासया यस्मिन्मरुः । खिलं अप्रहतं द्वे अकृष्टस्य क्षेत्रादेः । न प्रहन्यते हलादिभिरप्रहतम् । “समे समानार्थे " त्रिषु लिंगेषु इत्यर्थः ॥ ५ ॥ जगती लोकः विष्टपं “पिष्टपं" । जगत्स्यात्पिष्टपे क्लीबं वायौ ना जंगमे त्रिषु ॥ जगती भुवने क्ष्मायां छंदोभेदे जने ऽपि च । लोकस्तु भुवने जने इति मेदिनी । “विष्टपः पुमानिति बोपालितः ।" भुवनं जगत् पंच भूतलस्य । “एकं महाभूतं पृथिवी । पंचमहाभूतविषयेंद्रियात्मकं जगदिति पृथ्वीजगतोर्भेदः । " भयं जंबुद्वीपवर्ती दृश्यमानो लोकः भारतनामकं वर्ष ज्ञेयम् । “उक्तं च । उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ॥ वर्ष तद्भारतं नाम भारती यत्र संततिरिति । " भरतस्य राज्ञ इदं भारतम् । “ वर्षशब्दः पुल्लिंगो ऽपि । पुन्नपुंसकयोवर्ष जंबुद्वीपा - ब्दवृष्टिष्विति रुद्रः । बर्षो ऽस्त्री भारतादौ च जंबुद्वीपान्दवृष्टिष्विति मेदिनी । " एकम् । एवमिलावृतादीन्यष्टौ वर्षाण्यन्यान्यपि । शरावत्या अवधेः ॥ ६ ॥ यः प्राग्दक्षिणः प्राक् सहितो दक्षिणो देशः स प्राच्य इत्येकम् । शरावत्या अवधेर्यः पश्चिमोत्तरः पश्चिमसहित उत्तरो देशः स उदीच्य इत्येकम् || प्रत्यंत: अंतंप्रति गतः म्लेच्छ्देशः द्वे शिष्टाचाररहितस्य कामरूपादेः । “यदुक्तम् । चातुर्वर्ण्यव्यव For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy