SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वारिवर्गः कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः॥ वा पुंसि पनं नलिनमरविंदं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ पंकेरुहं तामरसं सारसं सरसीरुहम् ॥४०॥ बिसप्रसूनराजीवपुष्करांभोरुहाणि च ॥ पुंडरीकं सितांभोजमथ रक्तसरोरुहे ॥ ११॥ रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ मृणाले बिसमजादिकदंवे खंडैमस्त्रियाम् ॥ ४२ ॥ करहाटः शिफाकंदः किंजल्कः केसरोऽस्त्रियाम् ॥ नीली शेवालं शैवलः “शैवालः । शेवालश्चापि शैवालः शेवलो जलनीलिका ।" त्रयं शेवाळ इति ख्यातस्य । कुमुद्वती ॥ ३८ ॥ कुमुदिनी द्वे कुमुदिन्याः “ कुमुदयुक्तदेशस्य च ।" नलिनी “ नडिन्यपि । नडाः संत्यत्रेति नडिनी।" बिसिनी पद्मिनी त्रयं कमलिन्याः । मुखशब्दात्सरोजिनीप्रभृतयः । पद्मं नलिनं अरविंदं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयं पंकेरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ बिसप्रसून राजीवं पुष्करं अंभोरुहं षोडश कमलस्य । वा पुंसीति षोडशभिरपि संबध्यते । तत्र पुंडरीकं सितांभोज द्वे सितकमलस्य । रक्तसरोरुहम् ॥ ४१॥ रक्तोत्पलं कोकनदं त्रयं रक्तकमलस्य । कोकनदमिति रक्तकुंदे ऽपि वर्तते । यदाहुः रक्ताब्जे रक्तकुंदे च बुधैः कोकनदं स्मृतमिति । नालः नालम् “ नाला नाली च" द्वे पद्मादिदंडस्य । मृणालं बिसम् "मृणाली मृणालः बिशम् । मृणालं नलदे क्लीबं पुन्नपुंसकयोविश इति विश्वः ।। मृणाले तु.विशं बिसमिति द्विरूपकोशः” द्वे मृणालस्य भिसें इति ख्यातस्य । अस्त्रियां क्लीबपुंसोः । अब्जादिकदंबे कमलादीनां समूहे खंडमित्येकमस्त्रियाम् । “ शंडः षंडः।" ता. लव्यो मूर्द्धन्योऽब्जादिकदंबे पंडशब्दो ऽयं । मूर्धन्य एव वृषभे पूर्वाचार्यविनिर्दिष्ट इत्यूष्मविवेकः ॥ ४२ ॥ करहाटः शिफाकंदः द्वे पद्ममलस्य । “ शिफा मूलतरुप्ररोहस्तत्सहितः कंदः । कंदो मूलमित्यर्थः । शिफेति च कंदमिति च पृथक नाममी इत्येके । किंजल्कः केसरः “केशरः" द्वे केसरस्य । संवर्तिका नवदलं द्वे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy