SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ शरावती वेत्रवती चंद्रभागा सरस्वती ॥ ३४॥ कावेरी सरितो ऽन्याश्च संभेदः सिंधुसंगमः॥ द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५॥ देविकायां सरय्वां च भवे दाविकसारखी। सौगंधिकं तु कल्हार हल्लकं रक्तसंध्यकम् ॥ ३६ ॥ स्यादुत्पलं कुवलयमथ नीलांबुजन्म च ॥ इंदीवरं च नीले ऽस्मिन्सिते कुमुदकैरवे ॥ ३७॥ शालूकमेषां कंदः स्याहारिपर्णी तु कुंभिका ॥ जलनीली तु शेवाले शैवलोऽथ कुमुदती ॥ ३८॥ याऽल्पा कृत्रिमा सरित्सा कुल्या । तालव्यांतम् । एकम् । “कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणालिकेति धरणेनदीमात्रेऽपि । शरावती वेत्रवती चंद्रभागा "चांद्रभागा चांद्रभागी चंद्रभागी । चंद्रभागा चांद्रभागा चांद्रभागी च सा मता ॥ चंद्रभागी च सैवोक्तेति द्विरूपकोशः ।" सरस्वती ॥ ३४॥ कावेरी एते पंच सरिद्विशेषाः । एकैकम् । अन्याश्च सरितः कौशिकीगंडकीचर्मण्वतीगोदावेण्याद्याः संतीति शेषः । संभेदः सिंधुसंगमः द्वे नदीमेलकस्य नदीसंगमस्य । “संभिद्यते मिलत्यत्र संभेदः।" पयसो जलस्य पदव्यां निर्गमनमार्गे मकरमुखादिरूपा प्रणालोरटेनम् तत् द्वयोः पुंसि तु प्रणालः ॥ ३५ ॥ उत्तरौ दाविकसारवौ त्रिषु । देविकायां नद्यां भवं दाविकम् । सरय्वां नद्यां भवं सारवम् । दांडिनायनेति निपातनात्सारवशब्द: साधुः एकैकम् । स्त्रियां तु दाविकी सारवी । सौगंधिकं कल्हार “कहार" संध्यावि. कासिनः शुक्लसरोजस्य । हल्लकं रक्तसंध्यकं द्वे रक्तकल्हारस्य । रक्तासंधीन् अकति रक्तसंध्यकम् ॥३६॥ उत्पलं कुवलयं द्वे कुमुदस्य । “कमलसाधारणस्येत्यन्ये । कुबलं तूत्पलं कुवमिति त्रिकांडशेषः ।" नीले ऽस्मिन्नुत्पले नीलांबुजन्म इंदीवरं इति द्वे । "इंदिवरं इंदीवारं इत्यपि ।". सिते शुभ्रेऽस्मिन्नुत्पले कुमुद कैरवं द्वे । “केरवस्य हंसस्येदं प्रियं कैरवम्” ॥ २७ ॥ एषां उत्पलविशेषाणां कंदः शालूकं स्यात् एकम् । वारिपर्णी कुंभिका द्वे जलकुंभीति ख्यातायाः । जल. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy