SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वारिवर्ग: तरंगिणी शैवलिनी तटिनी -हादिनी धुनी ॥ स्रोतस्विनी द्वीपवती स्रवंती निम्नगाँपगा ॥ ३० ॥ "कूलंका निर्झरिणी रोधोवका सरखती” || गंगा विष्णुपदी जन्हुतनया सुरनिम्नगा ॥ भागीरथी त्रिपथगा त्रिस्रोता भीष्मसुरपि ॥ ३१ ॥ कालिंदी सूर्यतनया यमुना शमनस्वसा ॥ रेवा तु नर्मदा सोमोद्भवा मेकॅलकन्यका || ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी || शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम् ।। ३३ ।। मी स्रोतस्विनी " स्रोतस्वती" द्वीपवती स्रवंती निम्नगा आपगा । अपां समूहो आप तेन गच्छति । समूहे अण् । गमेर्ड : " अपगेति -हस्वादिरपि । विद्यादगारमागारमपगामापगामपीति द्विरूपकोशः ।” द्वादश नद्याः ॥ ३० ॥ “ कूलं कषादिसरस्वत्यं - तानि चत्वार्यपि नद्याः” । गंगा विष्णुपदी जन्हुतनया सुरनिम्नगा भागीरथी त्रि पथगा त्रिस्रोताः भीष्मसूः अष्टौ भागीरथ्याः । त्रिस्रोताः सांता ॥ ३१ ॥ कालिंदी सूर्यतनया यमुना शमनस्वसा चत्वारि यमुनायाः । शमनस्वसा ऋदंता । रेवा नर्मदा सोमोद्भवा । सोमात् सोमवंशजात्पुरूरवस उद्भवति । अच् । तेनावतारितत्वात् । अथवा सोमाद्रुद्राद्भवति । मेकलकन्यका “ मेखलकन्यका" चत्वारि नर्मदायाः । 'मेकलो ऋषिरद्रिर्वा तस्य कन्यका ॥ ३२ ॥ करतोया सदानीरा गौरीविवाहे कन्यादानोदकाज्जातायाः । “ यदुक्तम् । प्रथमं कर्कटे देवी त्र्यहं गंगा रजस्वला । सर्वा रक्तवहा नयः करतोयांबुवाहिनीति ।" बाहुदा सैतवाहिनी द्वे कार्तवीर्यार्जुनेन या ऽवतारिता तस्याः । 66 बाहुदस्य कार्तवीर्यस्येयं बाहुदा ।" शतद्रुः शुतुद्रिः । द्वे शतरुद्रेति देशभाषया प्रसिद्धायाः । शुतुद्रिरित्यपि पाठः । शुतुद्रस्तोममिति श्रुतेः पाठात् । वसिष्ठशापभयाच्छतथा द्रुता शतद्रुः । विपाशा विपाट् द्वे पाशमोचिनीति ख्यातायाः । वसिष्ठं विपाशयतीति विपाट् शकारांता ॥ ३३ ॥ शोणः हिरण्यवाहः द्वे नदविशेषस्य " शोणानदीति प्रसिद्धस्य । 66 "" "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy