SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ५७ नाव्यं त्रिलिंग नौवार्ये स्त्रियां नौस्तरणिस्तरिः॥१०॥ उडुपं तु प्लवः कोलः स्रोतोंऽबुसरणं स्वतः॥ आतरस्तरपण्यं स्याँद्रोणी काष्ठांबुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिकर्णधारस्तु नाविकः॥ नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥१२॥ नौकादंडः क्षेपणी स्यादरित्रं केनिपातकः॥ अधिः स्त्री काष्ठकुदालः सेकपात्रं तु सेचनम् ॥ १३॥ त्रयं नौकायाः। तरीरित्यपि लक्ष्मीवत् । “कृदिकारादिति कीषि तरणी तरी इत्यपि । तरणी तरीति हैमः" ॥१०॥ उडुपं प्लवः कोलः त्रयमल्पनौकायाः “ होडी पडांव इति ख्यातायाः।" स्वतो यदंबुसरणं जलगमनं तत्स्रोत उच्यते । सांतमेकम् । "तालव्यादिरपि।" भातरः तरपण्यं द्वे नद्यादितरणे देयमूल्यस्य । काष्टांबुवाहिनी काष्टमयी जलवाहिनी सा द्रोणी उच्यते । “द्रुणिः द्रोणिः” काष्ठमुपलक्षणं पाषाणादेः एक डोणी इति ख्यातस्य ॥११॥सांयात्रिकः। “समुदितानां गमनं द्वीपांतरगमनं वा संयात्रा सा प्रयोजनमस्यास्तीति । प्रयोजने ठक् इकादेशः।" पोतवणिक् पोतेनोपलक्षितो वणिक । मध्यमपदलोपी समासः । द्वे नौकया वाणिज्यकारिणः । कर्णधारः नाविकः द्वे अरित्रं धृत्वा यस्तारयति तस्य । नियामकाः पोतवाहाः द्वे पोतमध्यस्थितकाष्ठाने दुष्टत्वादिज्ञानाय स्थित्वा ये नियंतुं शक्तास्तेषाम् । कुपकः गुणवृक्षकः गुणानां रज्जूनां वृक्षः दे रज्ज्वाद्याधारमध्यस्तंभस्य “कुवा, डोलकाठी" इति ख्यातस्य ॥१२॥ नौकादंडः क्षेपणी "क्षेपणिः क्षिपणीरिति च" द्वे नौकावाहकदंडस्य “वल्हें" इति ख्यातस्य । अरित्रं केनिपातकः । के जले निपातो यस्य । हलदंतेति सप्तम्याः अलुक् । द्वे कर्णस्य "सुकाणुं इति ख्यातस्य" । अभिः " अभ्रीत्यपि " काष्ठकुहालः "काष्टकूहालः" द्वे पोतादेर्मलापनयनाथ काष्ठकुहालस्य “कुडती इति ख्यातस्य" । सेकपात्रं सेचनं द्वे चर्मादिरचितस्य जलोत्सजनपात्रस्य "बालदी डोल इति ख्यातस्य ।" यानपात्रं तु पोतोऽब्धिभवे त्रिषु समुद्रियं ॥ सामुद्रिको मनुष्योऽब्धिजाता सामुद्रिका च नौरिति कचित् ॥ १३ ॥ नावोऽर्धे अर्धनावमित्येकम् । तत्कीबे। नावो द्विगोरर्धाचेति टम् । अतीतनौके नौकाम For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy