SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६ ___ सटीकामरकोशस्य [वारिवर्ग: चक्राणि पुटभेदाः स्युर्धमाश जलनिर्ममाः॥ कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥७॥ पारावारे परार्वाची तीरे पात्रं तदंतरम् ॥ दीपो ऽस्त्रियामंतरीपं यदंतारिणस्तटम् ॥ ८॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ॥ निषदरस्तु जंबालः पंको ऽस्त्री शादकर्दमौ ॥९॥ जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः॥ पि । वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् ।” पुटभेदाः भ्रमाः जलनिर्गमाः चत्वारियानि चक्राकारेण अलान्यधो यांति तेषाम् । “चक्रादिद्वयं चक्राकारेण जलाना. मधो यानस्य । भ्रमादि द्वयं जलनिःसरणजालकस्य । नद्यादौ अधःस्थजलस्योर्ध्वनिःसरणस्येति वा मतम् ।” कूलं रोधः तीरं प्रतीरं तट पंच तीरस्य । रोधः सांतम् । “अदंतोऽपि । रोधः प्रोक्तश्च रोधसीति संसारावर्तः।" तट त्रिलिंगम् ॥७॥ परं च अर्वाक च परार्वाची तीरे क्रमेण पारावारे उच्यते । नद्याः परतीरं पारं भ. वाक्तीरं आवारमित्यर्थः । एकैकम् । तयोः पारावारयोः अंतरं मध्यं पात्रमुच्यते । पात्रं तु कलयोर्मध्ये पणे नृपतिमंत्रिणि । योग्यभाजनयोर्यज्ञभांडे नाट्यानुकर्तरीति हैमः । एकम् । वारिणों ऽतर्मध्ये यत्तटं तत् द्वीप इति अंतरीपमिति चोच्य. ते । अस्त्रियामित्युभाभ्यां संबध्यते । द्वे । “द्विर्गता आपो ऽत्र स द्वीपः । अपां अंतर्गतं अंतरीपं । द्वीपांतरीपशब्दयोः समासांतो ऽच उभयत्रापि व्यंतरुपेतीकारः। (बेट इति प्रसिद्धम् ॥८॥ तोयोत्थितं तोयक्रमेणोत्थं तत्पुलिनमुच्यते एकम् । सैकतं सिकतामयं द्वे वालुकाप्रचुरस्थानस्य । निषद्वरः जबालः पंकः शादः कर्दमः पंच कर्दमस्य । तत्र पंकः पुनपुंसकयोः ॥९॥ जलोच्छासाः परीवाहाः " परिवाहाः।" द्वयं निर्गममार्गः प्रवृद्धं जलं परिवहति तेषाम् । तथा च प्र. योगः । उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ॥ तडागोदरसंस्थानां परीवाहा इवांभसामिति । जलप्रवृद्धिरेव परीवाह इत्येके । कूपकाः विदारकाः । शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियते तेषाम् । स्रोतोद्विधाकारिणः शिलादयः कुपका इत्येके नौतार्ये नावा तारितुमर्हे जलादौ नाव्यं एकं । तत् त्रिषु । नौः तरणिः तरिः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy