SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाट्यवर्गः उत्साहो ऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक् ॥ २९॥ कपटो ऽस्त्री व्याजदंभोपधयश्छद्मकैतवे॥ कुमृतिनिकृतिः शाठ्यं प्रमादो ऽनवधानता ॥ ३० ॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ ३१॥ . हेला लीलेत्यमी हावाः क्रियाः शृंगारभावजाः॥ धनेऽप्युद्यतो भवति । स उत्साहोऽतिशक्तिभाक् सातिशक्तिश्चेद्वीर्यमुच्यते । “अतिशयशक्तिर्वार्या इति त्वमरमालायां स्त्रीत्वं" एकम् ॥२९॥ कपटः व्याजः दंभः उपधिः छद्म कैतवं । कितवस्य कर्म । युवादित्वादण् । कैतवं द्यूतदंभयोरिति हैमः। कुमृतिः निकृतिः शाठयं नव शाठयस्य । “शठ कैतवे । कपटः पुन्नपुंसकयोः ॥" प्रमादः अनवधानता द्वे कर्तव्यानवधानस्य ॥ ३० ॥ कौतूहलं कौतुकं कुतुकं कुतूहलं चत्वारि कौतुकस्य । विलासः विश्वोकः विभ्रमः ललितं ॥ ३१॥ हेला लीला अमी स्त्रीणां श्रृंगारभावजाः शृंगाररससमुद्भूताः क्रियाचेष्टाः षडमी हावा उच्यते एकैकम् । तत्र रामानयनवदनभ्रूप्रभृतीनां यः कश्चिदुत्पद्यते विशेषः स विलासः । गर्वामिमानसंभूतो विकारो ऽनादरात्मको विव्वोकः । वाग्वस्त्रभूषणादीनां स्थानविपर्यासो विभ्रमः । सकलांगसमीचीनविन्यासो ललितं । अवगणनापूर्वकमभिनयप्रदर्शनं हेला । प्रियभूषणवचनाद्यनुकृतिबला । “तत्र रामादिलीला तस्य मूलं त्वेवं । विलासों ऽगे विशेषो यः प्रियाप्तावासनादिषु । विव्वोको ऽभिमतप्राप्तावपि गर्वादनादरः । चित्तवृत्त्यनवस्थानं श्रृंगारादिभ्रमो मतः। अनाचार्योपदिष्टं स्थाललितं रतिचेष्टितं ॥ स्याद्भावसूचको हावो हेलास्यैवानुभावनं ॥ प्रौढेच्छा सुरते हेलेति वा ॥ प्रियस्यानुकृतिलीला श्लिष्टावाग्वेषचेष्टितैः ॥ इतिशब्दात्प्रकारादिन्येऽपि ज्ञेयाः । लीला विलोसो विच्छित्तिविभ्रमः किलैकिंचितम् ॥ मोट्टीयितं कुटुंमितं विवोको ललितं तथा ॥ विहृतं चेति मंतव्या दश स्त्रीणां स्वभा. वजा इति नाटकरत्नकोशः ॥ विच्छित्तिः । मंडनानादरन्यासो विच्छित्ती रूपदर्पतः ॥ किलकिंचितं । हर्षादुदितगीतादिव्यामिश्रं किलकिंचितं ॥ मोडायितं । मोट्टायितं प्रियं स्मृत्वा सांगभंगं विमुंभणं ॥ कुट्टमितं । दुःखोपचारः सौख्येऽपि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy