SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ४७ अक्षांतिरीp ऽसूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् ॥ पश्चातापो ऽनुतापश्च विप्रतीसार इत्यपि ॥ २५॥ कोपक्रोधामर्षरोषप्रतिघा रुकुधौ स्त्रियौ ॥ शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ प्रेमा ना प्रियता हार्द प्रेम स्नेहो ऽथ दोहदम् ॥ इच्छा कांक्षा स्टहेहा तृवांछा लिप्सा मनोरथः॥२७॥ कामो ऽभिलाषस्तर्षश्च सो ऽत्यर्थ लालसा द्वयोः॥ उपाधिर्ना धर्मचिंता पुंस्याधिर्मानसीव्यथा ॥ २८॥ स्याचिंता स्मृतिराध्यानमुत्कंठोत्कलिके समे ॥ द्वे पराभ्युदयासहनस्य । गुणेष्वपि दोषारोपः असूया । कंडादियगंतादकारः । ए. कम् ॥ २४ ॥ वैरं विरोधः विद्वेषः त्रयं वैरस्य । मन्युः शोकः शुक् त्रयं शोकस्य । शुक् चांता । पश्चात्तापः अनुतापः विप्रतीसारः त्रयं पश्चात्तापस्य ॥२५॥ कोपः क्रोधः अमर्षः रोषः प्रतिघः रुट क्रुध् सप्तकं क्रोधस्य । तत्र रुट षांता । नियौ स्त्रीलिंगे। “रुद्रुधौ टाबंतावपि । क्रोधो भामः क्रुधा रुषेति शब्दार्णवः ॥" शुचौ शुद्धे चरिते आचरणे शीलं एकम् । उन्मादः चित्तविभ्रमः द्वे चेतसो ऽनवस्थितेः ॥ २६ ॥ प्रेमा प्रियता हार्द प्रेम स्नेहः पंच प्रेम्णः । तत्र प्रेमा ना पुमान् स्नेहश्च । लिंगस्योक्तत्वात् संकरो न दोषाय । प्रेम क्लीवे । दोहदं इच्छा कांक्षा स्पृहा ईहा तृट् वांछा लिप्सा मनोरथः ॥ २७ ॥ कामः अभिलाषः तर्षः द्वादश स्पृहायाः । तत्र दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदं । तृट् षांता । स त! महांश्चल्लालसा । द्वयोः स्त्रीपुंसयोः उपाधिः धर्मचिंता द्वे धर्मचिंतनस्य । तत्रोपाधिः पुंसि । आधिः मानसीव्यथा द्वे मनःपीडायाः । आधिरुच्यते पुंसि ॥२८॥ चिंता स्मृतिः आध्यानं त्रयं स्मरणस्य । उत्कंठा उत्कलिका द्वे उत्कंठायाः । “चिंता तु स्मृतिराध्यानं स्मरणं सस्पृहे पुनः । उत्कंठोत्कलिके तस्मिन्नभिध्या तुभयोरपीति शब्दार्णवः ।" उत्साहः अध्यवसायः द्वे उत्साहस्य । येन कृत्वा असाध्यसा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy