SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाटयवर्गः भयंकरं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥२०॥ चतुर्दश दरखासो भीतिज्ञैः साध्वसं भयम् ॥ विकारो मानसो भावो ऽनुभावो भावबोधकः ॥२१॥ गर्वो ऽभिमानो ऽहंकारो मानश्चित्तसमुन्नतिः॥ "दर्पो ऽवलेपो ऽवष्टंभश्चित्तोद्रेकः स्मयो मदः॥" अनादरः परिभवः परीभावस्तिरस्क्रिया ॥२२॥ रीढावमाननावज्ञावहेलनमसूक्षणम् ॥ मंदाक्षं हीस्त्रपा ब्रीडा लज्जा सा पत्रपा ऽन्यतः॥२३॥ शांतिस्तितिक्षा ऽभिध्या तु परस्य विषये स्टहा ॥ तादय उप्रांताश्चतुर्दश शब्दाः रसे पुंसि । शृंगारवीरेत्यादिश्लोके पुंस्त्वदर्शनात् । भभिन्नलिंगानामेव द्वंद्वप्रतिज्ञानात् । तद्वति तु त्रिषु वाच्यलिंगाः॥२०॥ रसानुक्त्वा तदनुगुणत्वेनोच्चावचान भावानभिधत्ते । दरः । दरः स्याद्भयगतयोरिति । त्रासः भीतिः भीः साध्वसं भयं । “भिया । स्यादर्तनमृतीया च गर्हाचाथ भयं भियेति शब्दार्णवः।" षटु भयस्य ।मानसःमनःसंबंधिविकारः भाव उच्यते एकम् । “भावयति करोति रसानिति भावः।” यो भावबोधकः चित्तविकारस्य प्रकाशकः कटाक्षादिः सोऽनुभाव इत्युच्यते एकम् ॥ २१॥ गर्वः अभिमानः अहंकारः त्रयं गर्वस्य । “अहमिति करणमहंकारः।" चित्तस्य समुन्नतिः परस्मादुत्कर्षचिंतनेनौन्नत्यं मान उच्यते एकम् । "गर्वादयः पंचापि पर्याया इति तु युक्तम्। दर्पादि षटुं मदस्य।"अनादरः परिभवः परीभावः। उपसर्गेति घनि बहुलं दीर्घः । तिरस्क्रिया ॥ २२॥ रीढा अवमानना अवज्ञा अवहेलनं असूक्षणं (असूक्षणमित्यपि) नवकमनादरस्य । मंदाक्षं हीः त्रपाब्रीडा लज्जा पंच लज्जायाः। घनि ब्रीडोऽपि । गंडूषगर्जभुजजागरहारकीलज्वालाझटारभसर्तकगर्द्धशृंगा। बीडादयश्च वरटश्च वराटकश्च उत्कंठबाणकरकाश्च समामयाश्चेति स्त्रीपुल्लिंगकथने रभसः । सा लज्जा ऽन्यतः परस्मात् चेदपत्रपा एकम्॥२३॥ शांतिः तितिक्षा। तिःक्षमायां सन् अप्रत्ययः टाप् । द्वे पराभ्युदयसहनस्य । परस्य विषये परकीयधने स्पृहा ऽभिध्या । “परस्य विषयस्पृहेत्यपि पाठः । तत्र परस्य विषयविषयिणीच्छेत्यर्थः" एकम् । अभिचारेण ध्यानं अभिध्या । अक्षांतिः ईर्ष्या For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy