SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. अंगहारों ऽगविक्षेपो व्यंजकाभिनयौ समौ॥ निर्वृत्ते त्वंगसत्वाभ्यां दे त्रिष्वांगिकसात्विके ॥१६॥ शृंगारवीरकरुणाद्भुतहास्यभयानकाः॥. बीभत्सरौद्रौ च रसाः शृंगारःशुचिरुज्ज्वलः॥१७॥ उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा॥ कृपा दया ऽनुकंपा स्यादनुकोशोऽप्यथो हसः ॥ १८॥ हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं दयम् ॥ विस्मयोद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ॥ नयनं" अंगहारः "अंगुल्यादिविन्यासः" अंगविक्षेपः द्वे नृत्यविशेषस्य । व्यंअकः अभिनयः द्वे हस्तादिभिर्मनोगतार्थप्रकाशनस्य । अंगेन निवृत्ते निष्पन्ने कर्मणि आंगिकम् । “भ्रूविक्षेपादि" सत्वेन अंतःकरणेन निवृत्ते सात्विकम् । निर्वृत्तेऽक्षतादिभ्य इत्यनेन आंगिकसात्विकशब्दौ ठगतौ । “तद्यथा । स्तंभः स्वेदो ऽथ रोमांचः स्वरभंगो ऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ साविका गुणाः ।" इमे द्वे अपि त्रिषु ॥ १६॥ नाटके हि रसाः अष्टावेवोक्तास्तानाह । शृंगारः । शृंगारो गजमंडने । सुरते रसभेदे च शृंगारं नागसंभवे इति हैमः । वीरः करुणः अदुतः हास्यः भयानकः बीभत्सः रौद्रः एतेऽष्टौ रसा ज्ञेयाः । रस्यंते इति रसाः । र. स आस्वादने । “चशब्दाच्छांतोऽपि नवमः । वात्सल्यं दशमः" श्रृंगारः शुचिः उज्ज्वलः त्रयं श्रृंगारस्य ॥ १७॥ उत्साहवर्द्धनः । उत्साहेन वर्धते उत्साहं वर्धयति वा नंद्यादिः । वीरः द्वे वीरस्य । कारुण्यं करुणा घृणा । घृणा तु स्याज्जुगुप्सायां करुणायामिति हैमः।। कृपा दया अनुकंपा अनुक्रोशः सप्तकं करुणस्य । हसः॥१८॥ हासः हास्यं त्रयं हासस्य । बीभत्सं विकृतं । “वैकृतो ऽपि । विकृतो वैकृतोऽप्याग्रहायण्यामग्रहायणमिति शब्दार्णवः ।" द्वे बीभत्सस्य । इदं द्वयं रसे पुंसि तद्वति त्रिषु । विस्मयः अद्भुतं । इदमव्ययम् । आश्चर्य चित्रं चत्वारिअद्भुतस्य । भैरवं ॥१९॥ दारुणं भीषणं भीष्मं । भीष्मो रुद्रे च गांगेये राक्षसे च भयंकर इति हैमः। घोरं भीम भयानकं भयंकरं प्रतिभयं नवकं भयानकस्य । रौद्रं उग्रं द्वे रौद्रस्य । अमी अद्भु For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy