SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ सटीकामरकोशस्य [नाट्यवर्गः राजा भट्टारको देवस्तत्सुता भर्तृदारिका ॥ देवी कृताभिषेकायामितरासु तु भहिनी ॥ १३॥ अब्रह्मण्यमवध्योक्तौ राजशालस्तु राष्ट्रियः॥ अंबा माता ऽथ बाला स्यादासूरार्यस्तु मारिषः॥ १४॥ अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे॥ हंडे हंजे हलाह्वाने नीचां चेटीं सखी प्रति ॥ १५॥ राजा । भट्टारकः देवः द्वयं राज्ञः । तस्य राज्ञः सुता भर्तृदारिका एकम् । कृतोऽभिषेको यस्यास्तस्यां राज्यां देवीत्येकम् । इतरासु राज्ञीषु भट्टिनीत्येकम् । भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषितीति रभसः । “अत्र विशेषः शब्दार्णवे । गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः । भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नान्नैव राजनित्यषिभिः स च । वयस्य राजनिति वा विदूषक इमं वदेत् । अभिषिक्ता त राज्ञाऽसौ दे. वीत्यन्या तु भोगिनी । भट्टिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सेति"॥ १३ ॥ अवध्यस्य वधानहस्य ब्राह्मणादेरुक्तौ दोषोक्तिकरणे अब्रह्मण्यमित्येकम् । राज्ञः शा. लः राष्ट्रिय उच्यते एकम् । अंबा माता द्वे नाट्योक्तावित्यधिकारस्य प्रायिकत्वादंबादीनामन्यत्रापि प्रयोगो ज्ञेयः । बाला वासुरिति द्वे कुमार्याः । आर्यः । “कतव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्राकृताचारो यः स आर्य इति स्मृत इति वसिष्ठः ।" मारिषः मर्षणात्सहनान्मारिषः । हिंसानिवरकत्वाद्वा । “ मा. पकः । आर्ये मारिषमार्षकाविति शब्दार्णवः" द्वे आर्यस्य ॥ १४ ॥ या ज्येष्ठा भगिनी सा अत्तिका । अत्ता माता सैव "अंतिका । अत्तिका चांतिका तथेति द्विरूपकोश:" एकम् । निष्टा निर्वहणं द्वे "मुख प्रतिमुख गर्भावमर्श निर्वहणाख्याः पंच नाटके संधयः तत्र पंचमस्य संधेः” । प्रस्तुतकथासमाप्तेरित्यन्ये । “निर्वहणं तु स्त्री संहारश्च समापन इति शब्दार्णवः । समे इति समानार्थे । न तु समानलिंगे शब्दार्णवे लिंगभेददर्शनात् ।” नीचां प्रत्याहाने हंडे इत्येकम् । चेटी प्रति आहाने हंजे इत्येकम् । सखी प्रत्याहाने हला । “ हलधातो हुलकादाप्रत्ययः । हलाशब्दष्टाबंतो ऽपि सखीपर्यायः । तत्र पचायच् । बाला चासुः सखी हलेति त्रिकांडे बोपालितात् ।" अमूनि त्रीण्यव्ययानि ॥ १५॥ "अंगस्य स्थानात्स्थानांतरे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy