SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्, मर्दलः पणवो ऽन्ये च नर्तकीलासिके समे ॥ ८॥ विलंबितं द्रुतं मध्यं तत्वमोघो घनं क्रमात् ॥ तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥९॥ तांडवं नटनं नाटयं लास्यं नृत्यं च नर्त्तने॥ तौर्यत्रिकं नृत्यगीतवाचं नाट्यमिदं त्रयम् ॥ १०॥ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः॥ स्त्रीवेषधारी पुरुषो नाट्योक्तो गणिकाज्जुका ॥११॥ भगिनीपतिरावुत्तो भावो विदानथावुकः॥ जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२ ॥ हुडुकगोमुखादयः संति । नर्तकी लासिका। “वाच्यलिंगत्वात् नर्तको लासकः समाविति पुंस्त्वनिर्देशे कर्तव्ये स्त्रीलिंगनिर्देशो ङीप्टापोर्विवेकार्थः" द्वे नर्तक्याः॥८॥ करचरणादिभिर्यद्विलंबितं नृत्यादिकं तत्तत्वमित्युच्यते एकम् । यत् द्रुतं शीघ्रं नृत्यादिकं तत् ओघ इत्युच्यते एकम् । यन्मध्यं न विलंबितं नापि द्रुत तद्धनमित्युच्यते एकम् । कालक्रिययोमानं नियमहेतुस्ताल इत्युच्यते एकम् । गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लय इत्युच्यते एकम् ॥ ९॥ तांडवं तंडुना प्रोक्तम् । अण् ओर्गुणः। नटनं नाट्यं लास्यं नृत्यं "नृत्तं" नर्तनं षटं नृत्यस्य । तत्र तांडवं क्लीबपुंसोः । नृत्यगीतवाद्यमितीदं त्रयं मिलित्वा तौर्यत्रिकमिति चोच्यते । “तूर्य मुरजादि तत्र भवं तौर्य । तौर्योपलक्षितं त्रिकमिति विग्रहः" द्वे ॥१०॥ यः स्त्रीवेषधारी नर्तकः पुरुषः तत्र भ्रकुंसः भ्रुकुंसःभ्रूकुंसःभ्रुवोर्बुवा वा कुंसो भाषणं शोभा वा यस्य इति त्रयमित्यर्थः । नाट्योक्तौ नाट्यप्रकरणे अधिकारोऽयम् । “प्रागंगहारात् ।" अज्जुकादिसंज्ञायाः । नाट्यादन्यत्र प्रयोगो नास्तीत्यर्थः । या गणिका सा अज्जुका एकम् ॥ ११॥ भगिन्याः पतिः आवुत्त इत्युच्यते "आवृत्तो ऽपि" एकम् । यो विद्वान्स भाव इत्युच्यते । भावयतीति भाव इति योगव्युत्पत्या नाट्यादन्यत्राप्येताहशानां प्रयोगे न दोषः । एकम् । जनकस्तु आवुक इत्युच्यते एकम् । युवराजस्तु कुमारः भर्तृदारकः द्वयम् ॥ १२॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy